SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥४१३॥ Jain Education In | देवाः छत्रचामरकलशधूपकडुच्छुकपुष्पगन्धयावत्पदात् माल्यचूर्णादिपरिग्रहः, हस्तगताः हृष्टतुष्टयावत्पदादानन्दालापको | ग्राह्यः, वज्रशूलपाणयः उपलक्षणादन्यशस्त्रपाणयोऽपि भाव्याः पुरतस्तिष्ठन्ति, अयमर्थः केचन छत्रधारिणः केचन चामरोत्क्षेपकाः केचन कलशधारिण इत्यादि, सेवाधर्मसत्यापनार्थं न तु वैरिनिग्रहार्थं तत्र वैरिणामभावात्, केचन वज्रपाणयः, केचन शूलपाणय इति केचन छत्राद्यव्यग्रपाणयः प्राञ्जलिकृतास्तिष्ठन्ति, अत्रातिदेशमाह-' एवं विजया' | इत्यादि, एवमुक्तप्रकारमभिषेकसूत्रं विजयदेवाभिषेकसूत्रानुसारेण ज्ञेयं, यावत्पदात् 'अप्पेगइआ पंडगवणं णञ्च्चोअगं | णाइमट्टिअं पविरलपफुसियं रयरेणुविणासणं दिवं सुरहिगंधोदकवासं वासंति, अप्पेगइआ निहयरयं णट्टरयं भट्टरयं | पसंतरयं उवसंतरयं करेंति' इति ग्राह्यम्, अत्र व्याख्या प्राग्वत्, वाक्ययोजना त्वेवं-अपिबढार्थे, एककाः - केचन | देवाः पण्डकवने नात्युदकं नातिमृत्तिकं यथा स्यात्तथा प्रविरलप्रस्पृष्टं रजोरेणुविनाशनं दिव्यं सुरभिगन्धोदकवर्ष वर्षन्ति, | अप्येककाः पण्डकवनं निहतरजः नष्टरजः भ्रष्टरजः प्रशान्तरजः उपशान्तरजः कुर्वन्ति, अथ सूत्रं - अप्येककाः देवाः | पण्डकवनं आसिक्तसम्मार्जितोपलिप्तं तथा सिक्तानि जलेन अत एव शुचीनि सम्मृष्टानि कचवरापनयेन रथ्यान्तराणि - | आपणवीथय इवापणवीथयो रथ्याविशेषा यस्मिन् तत्तथा कुर्वन्ति, अयमर्थः- तत्र स्थानस्थानानीतचन्दनादिवस्तूनि | मार्गान्तरेषु तथा राशीकृतानि सन्ति यथा हट्टश्रेणिप्रतिरूपं दधति यावत्पदात् 'पंडगवणं मंचाइमंचकलिअं करेंति, अप्पेगइआ णाणाविहरागऊसि अज्झयपडागमंडिअं करेंति, अप्पेगइआ गोसीसचंदणदद्दर दिण्णपंचंगुलितलं करेंति, For Private & Personal Use Only ५वक्षस्कारे जन्ममहे अच्युताभियोगः सू. १२१ ॥४१३॥ w.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy