SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter देवकहकहगं करेंति अप्पे० दुहुदुहुगं करेंति अप्पे० विकिअभूयाई रुवाई विउव्वित्ता पणचंति एवमाइ विभासेज्जा हा विजयस्स जाव सव्वओ समन्ता आहावेंति परिधावेंतित्ति । (सूत्रं १२१ ) 'तए णं से अच्चुए' इत्यादि, ततः उपस्थितायामभिषेकसामग्र्यां सोऽच्युतो देवेन्द्रो दशभिः सामानिकसहस्रैः त्रयस्त्रिंशता त्रयस्त्रिंशकैः चतुर्भिर्लोकपालैः तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः चत्वारिंशता आत्म| रक्षक देवसहस्रैः सार्द्ध संपरिवृतस्तैस्तद्गत देवजनप्रसिद्धैः स्वाभाविकैर्वैक्रियैश्च वरकमलप्रतिष्ठानैरित्यादि सर्व प्राग्वत्, | सुकुमाल करतल परिगृहीतैरनेकसहस्रसङ्ख्याकैः कलशैरिति गम्यते, तानेव विभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानां कलशानां यावत्पदादष्टसह रौप्याणामष्टसहस्रेण मणिमयानामष्टसहस्रेण सुवर्णरूप्यमयानामष्टसहस्रेण सुवर्णम |णिमयानामष्टसहस्रेण रूप्यमणिमयानामष्टसहस्रेण सुवर्णरूप्यमणिमयानामिति अष्टसहस्रेण भौमेयानां सर्वसङ्ख्यया | अष्टभिः सहस्रैः चतुःषष्ट्यधिकैर्यावच्छब्दात् भृङ्गारादिपरिग्रहः सर्वोदकैः सर्वमृत्तिकाभिः सर्वतुर्वरैर्यावच्छन्दात् पुष्पा| दिग्रहः, सर्वोषधिसिद्धार्थकैः सर्वय यावद्रवेण यावच्छन्दात् 'सबजुईए इत्यारभ्य दुंदुहिनिग्घोसनाइअ' इत्यन्तं ग्राह्यं, महता २ तीर्थकराभिषेकेण अत्र करणे तृतीया, कोऽर्थः ? - येनाभिषेकेण तीर्थकरा अभिषिच्यन्ते तेनेत्यर्थः, | अत्राभिषेकशब्देनाभिषेकोपयोगि क्षीरोदादिजलं ज्ञेयम्, अभिषिञ्चति - अभिषेकं करोतीत्यर्थः । सम्प्रत्यभिषेककारिण इन्द्रादपरे इन्द्रादयो यच्चस्तदाह – 'तए ण'मित्यादि, ततः स्वामिनोऽतिशयेन महत्यभिषेके वर्त्तमाने इन्द्रादिका For Private & Personal Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy