SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter पण्डकवने च सर्वतुबरान् गृह्णन्ति तथा तस्यैवापरार्धे अनेनैव क्रमेण वस्तुजातं गृह्णन्ति, ततो धातकीखण्डजम्बूद्वीप| गतो मेरुस्तस्य भद्रशालवने सर्वतुबरान् यावत् सिद्धार्थकांश्च गृह्णन्ति, एवमस्यैव नन्दनवनात् सर्वतुबरान् यावत्सि| र्द्धाधिकांश्च सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम - प्रथितपुष्पाणि गृह्णन्ति, एवं सौमनसवनात् सूत्रपाठे पञ्चमीलोपः प्राकृतत्वात् पण्डकवनाच्च सर्वतुबरान् यावत् सुमनोदामदर्दरमलय सुगन्धिकान् गन्धान्, दर्दरमलयौ चन्दनो| त्पत्तिखानिभूतौ पर्वतौ तेन तदुद्भवं चन्दनमपि 'तात्त्स्थ्यात् तद्व्यपदेश' इति न्यायेन दर्दरमलयशब्दाभ्यामभिधीयते, ततो दर्दरमलयनामके चन्दने तयोः सुगन्धः - परमगन्धो यत्र तान् दर्दरमलयसुगन्धिकान् गन्धान्-वासान् गृह्णन्ति, गृहीत्वा च इतस्ततो विप्रकीर्णा आभियोग्यदेवा एकत्र मिलन्ति मिलित्वा च यत्रैव स्वामी तत्रैवोपागच्छन्ति उपागत्य च तं महार्थं यावच्छन्दात् महाघं महार्ह विपुलमिति पदत्रयी तीर्थकराभिषेकं तीर्थकराभिषेकयोग्यं क्षीरोदकाद्युपस्करमु|पस्थापयन्ति - उपनयन्ति, अच्युतेन्द्रस्य समीपस्थितं कुर्वन्तीत्यर्थः । अथाच्युतेन्द्रो यदकरोत्तदाह तसे अच्चु देविन्दे दसहिं सामाणिअसाहस्सीहिं तायन्त्तीसाए तायत्तीसएहिं चउहिं लोगपालेहिं तिहिं परिसाहिं सत्तहिं अति अणिआहिवईहिं चत्तालीसाए आयरक्खदेव साहस्सीहिं सद्धिं संपरिवुडें तेहिं साभाविएहिं विउव्विएहि अ वरकमलपद्दट्ठाणेहिं सुरभिवरवारिपडिपुण्णेहिं चन्दणकयचच्चाएहिं आविद्धकण्ठेगुणेहिं पउमुप्पलपिहाणेहिं करयलसुकुमारपरिग्गहिएहिं असहस्सेणं सोवण्णिआणं कलसाणं जाव अट्टसहस्सेणं भोमेज्जाणं जाव सव्वोदएहिं सव्वमट्टिआहिं सब्बतुअरेहिं जाव For Private & Personal Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy