________________
भिषेकोपयोगवस्तुभिः सङ्ख्ययैव तुल्यानि नतु गुणेनेत्याह-विशेषिततराणि-अतिविशिष्टानि भणितव्यानि-वाच्यानि, प्रथमकल्पीयदेवविकुर्वणातोऽच्युतकल्पदेवविकुर्वणाया अधिकतरत्वात् , तथा सिंहासनच्छत्रचामरतिलसमुद्कयावत्सर्षपसमुद्गकः, अत्र यावत्पदात् कोष्ठसमुद्गकादयो वाच्याः, एषां च व्याख्या प्राग्वत् , तालवृन्तानि यावत्करणात् व्यजनानीति ग्रहः, तत्र व्यजनानीति सामान्यतो वातोपकरणानि तालवृतानि तद्विशेषरूपाणि, एषामष्टसहस्रमष्टसह-1 समिति, अष्टसहस्रं धूपकडुच्छुकानामिति । अथ विकुर्वणायाः सार्थकत्वमाह-विउचित्ता' इत्यादि, विकुर्वित्वा च स्वाभाविकान्-देवलोके देवलोकवत् स्वयंसिद्धान् शाश्वतान् वैक्रियांश्च-अनन्तरोक्तान् सौवर्णादिकान् यावच्छब्दात् भृङ्गारादयो व्यजनान्ता ग्राह्याः, धूपकडुच्छुकांश्च सूत्रे साक्षादुपात्तान्, गृहीत्वा च यत्रैव क्षीरोदः समुद्रः तत्रैवागत्य क्षीरोदक-क्षीररूपमुदकं गृह्णन्ति, ननु मेरुतोऽभिषेकाङ्गभूतवस्तुग्रहणाय चलन्तस्ते देवास्तद्ग्रहणोपयोगि वस्तुजातं कलशभृङ्गरादिकं गृह्णन्तु परं तदनुपयोगि यावच्छब्दोदरप्रविष्टं सिंहासनचामरादिकं तैलसमुद्गकादिकं च कथं गृह्ण-18 न्तीति चेदुच्यते, विकुर्वणासूत्रस्यातिदेशेन ग्रहणसूत्रस्यातिदिष्टत्वादेतत्सूत्रपाठस्यान्तर्गतत्वेऽपि ये ग्रहणोचितास्ते एव गृहीता इति बोध्यं, योग्यतावशादेवार्थप्रतिपत्तेः, यच्च धूपकडुच्छुकानां तत्र ग्रहणं तत्कलशभृङ्गारादिदेवहस्तधूपनार्थमिति, अन्यथा सूत्रे साक्षादुपदर्शितस्य धूपकडुच्छुकानां ग्रहणस्य नैरर्थक्यापत्तेः, अथ प्रस्तुतसूत्रं-गृहीत्वा च यानि तत्र क्षीरोदे उत्पलानि पद्मानि यावत्सहस्रपत्राणि तानि गृह्णन्ति यावत्पदात् कुमुदादिग्रहः, एवमनया रीत्या पुष्क-1
Jain Education Intel
For Private & Personel Use Only
hainelibrary.org