________________
श्रीजम्ब- एते संख्याप्रकाराः सामानिकाना देवानां क्रमेण दशकल्पेन्द्रसम्बन्धिनामिति, तेन 'चउरासीए सामाणिअसाहस्सीण'-18|५वक्षम्कारे द्वीपशा-मित्येतद्विशेषणस्थाने प्रतीन्द्रालापकं असीइए सामाणिअसाहस्सीणमित्यादिअभिलापो ग्राह्यः, तथा सौधर्मेन्द्रकल्पे | जन्ममहे न्तिचन्द्री-18
द्वात्रिंशलक्षाणि ईशाने अष्टाविंशतिर्लक्षाणि एवं सनत्कुमारे द्वादश माहेन्द्रे अष्ट ब्रह्मलोके चत्वारि तथा लान्तके 181 | ईशानेन्द्राया वृत्तिः पञ्चाशत्सहस्राणि एवं शुक्रे चत्वारिंशत्सहस्राणि चः समुच्चये सहस्रारे षट् सहस्राणि आनतप्राणतकल्पयोर्द्वयोः समु-18
द्यागमः
मू. ११८ ॥४०६॥ दितयोश्चत्वारि शतानि आरणाच्युतयोस्त्रीणि शतानि एते विमानानां संख्याप्रकाराः, यानविमानविकुर्वकाश्च देवा इमे ||
वक्ष्यमाणाः शक्रादिक्रमेण, तद्यथा-पालकः १ पुष्पकः २ सौमनसः ३ श्रीवत्सः ४ चः समुच्चये नन्दावर्त्तः ५ कामगमः ६ प्रीतिगमः ७ मनोरमः ८ विमलः ९ सर्वतोभद्र १० इति, अथ दशसु कल्पेन्द्रेषु केनचित्प्रकारेण पञ्चानां २ साम्यमाह-सौधर्मकानां-सौधर्मदेवलोकोत्पन्नानां एवमग्रेऽपि ज्ञेयं, तथा सनत्कुमारकाणां ब्रह्मलोककानां महाशुक्रकानां प्राणतकानामिन्द्राणां, बहुवचनं सर्वकालवर्तीन्द्रापेक्षया, सुघोषा घण्टा हरिनेगमेषी पदात्यनीकाधिपतिः इति
औत्तराहा निर्याणभूमिः दक्षिणपौरस्त्यो रतिकरपर्वतः, तथा ईशानकानां माहेन्द्रलान्तकसहस्राराच्युतकानां च इन्द्राणां IS महाघोषा घण्टा लघुपराक्रमः पदात्यनीकाधिपतिः दक्षिणो निर्याणमार्गः उत्तरपौरस्त्यो रतिकरपर्वतः, णमिति वाक्या-12 ॥४०६॥
लङ्कारे, पर्षदः-अभ्यन्तरमध्यवाह्यरूपाः यस्य यावद्देवदेवीप्रमाणा भवन्ति तस्य तावत्प्रमाणा यथा जीवाभिगमे तथा ज्ञेयाः; ताश्चैवं शक्रस्याभ्यन्तरिकायां पर्षदि १२ सहस्राणि देवानां मध्यमायां १४ सहस्राणि बाह्यायां १६ सहस्राणि ।
Jain Education Interna
For Private
Personel Use Only