SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ तेणं कालेण'मित्यादि, तस्मिन् काले सम्भवन्जिनजन्मके तस्मिन् समये-दिक्कुमारीकृत्यानन्तरीये न तु शक्रागमनानन्तरीये सर्वेषामिन्द्राणां जिनकल्याणकेषु युगपदेव समागमनारम्भस्य जायमानत्वात् , यत्तु सूत्रे शक्रागमना. नन्तरीयमीशानेन्द्रागमनमुक्तं तत्क्रमेणैव सूत्रबन्धस्य सम्भवात् , ईशानो देवेन्द्रो देवराजा शूलपाणिवृषभवाहनः सुरेन्द्र उत्तरार्द्धलोकाधिपतिः, मेरोरुत्तरतोऽस्यैवाधिपत्यात्, अष्टाविंशतिविमानावासशतसहस्राधिपतिः अरजांसि-निर्मलानि अम्बरवस्त्राणि-स्वच्छतयाऽऽकाशकल्पानि वसनानि धरति यः स तथा, एवं यथा शक्रः सौधर्मेन्द्रस्तथाऽयमपि, इदमत्र नानात्वं-विशेषः महाघोषा घण्टा लघुपराक्रमनामा पदात्यनीकाधिपतिः पुष्पकनामा विमानकारी दक्षिणा निर्याणभूमिः उत्तरपौरस्त्यो रतिकरपर्वतः मन्दरे समवसृतः-समागतः यावत्पदात् 'भगवन्तं तित्थयरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता वन्दइ णमंसइ वंदित्ता णमंसित्ता णच्चासण्णे णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे | विणएणं पंजलिउडे' इति, पर्युपास्ते । अथातिदेशेनावशिष्टानां सनत्कुमारादीन्द्राणां वक्तव्यमाह-एवं अवसिट्टावि इत्यादि, एवं-सौधर्मेशानेन्द्ररीत्या अवशिष्टा अपि इन्द्रा वैमानिकानां भणितव्याः यावदच्युतेन्द्रः-एकादशद्वादशक-| ल्पाधिपतिरिति, अत्र यो विशेषस्तमाह-इदं नानात्वं-भेदः, चतुरशीतिः सहस्राणि शक्रस्य अशीतिः सहस्राणीशाने8न्द्रस्य द्विसप्ततिः सहस्राणि सनत्कुमारेन्द्रस्य एवं सप्ततिर्माहेन्द्रस्य चः समुच्चये षष्टिब्रह्मेन्द्रस्य चः प्राग्वत् पञ्चाशल्ला न्तकेन्द्रस्य चत्वारिंशच्छुकेद्रस्य त्रिंशत्सहस्रारेन्द्रस्य विंशतिरानतप्राणतकल्पद्विकेन्द्रस्य दशारणाच्युतकल्पद्विकेन्द्रस्य, Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy