________________
दुःखभागभूदिति दिव्यनिद्रया निद्राणां करोतीत्यर्थः, दत्त्वा च तीर्थकरस्य मेरुं नेतव्यस्य भगवतः प्रतिरूपक-जिनसदृशं रूपं विकुर्वन्ति, अस्मासु मेरं गतेषु जन्ममहव्यापृतिव्यग्रेषु आसन्नदुष्टदेवतया कुतूहलादिनाऽपहृतनिद्रा सती मा इयं तथा भवत्विति भगवद्रूपानिर्विशेष रूपं विकुर्वतीत्यर्थः, विकुळ च तीर्थकरमातुः पार्थे स्थापयति स्थापयित्वा च पञ्च शक्रान् विकुर्वति, आत्मना पञ्चरूपो भवतीत्यर्थः, विकुयं च तेषां पञ्चानां मध्ये एकः शक्रो भगवन्तं तीर्थकरं परमशुचिना सरसगोशीर्षचन्दनलिप्तेन धूपवासितेनेति शेषः करतलयोः-ऊर्ध्वाधोव्यवस्थितयोः पुटं-सम्पुटं | शुक्तिकासम्पुटमिवेत्यर्थः तेन गृह्णाति एकः शक्रः पृष्ठत आतपत्रं-छत्रं धरति द्वौ शक्रावुभयोः पार्श्वयोश्चामरोत्क्षेपं कुरुतः एकः शक्रः पुरतो वज्रपाणिः सन् प्रकर्षति-निर्गमयति, आत्मानमिति शेषः, अग्रतः प्रवर्तत इत्यर्थः, अत्र च सत्यपि सामानिकादिदेवपरिवारे यदिन्द्रस्य स्वयमेव पञ्चरूपविकुर्वणं तत् त्रिजगद्गुरोः परिपूर्णसेवालिप्सुत्वेनेति । अथ यथा शक्रो विवक्षितस्थानमामोति तथा आह-तए णं से सके'इत्यादि, ततः स शक्रो देवेन्द्रो देवराजा अन्यैबहुभिर्भवनपतिवानमन्तरज्योतिष्कवैमानिकैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतः सर्वा यावत्करणात् 'सबज्जुईए' इत्यादि पदसग्रहः पूर्वोक्तो ज्ञेयः, तयोत्कृष्टया यावत्करणात् 'तुरिआए' इत्यादिग्रहः व्यतिव्रजन् २ यत्रैव मन्दरपर्वतो यत्रैव च पण्डकवनं यत्रैव चाभिषेकशिला यत्रैव चाभिषेकसिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासन
အအအအအအအအအ
Jain Education in
For Private Personel Use Only
Vol.jainelibrary.org