________________
18 उवागच्छइ २ त्ता' इति ग्राह्य, सिंहासने पूर्वाभिमुखः सन्निषण्ण इति । अथास्थानं सामानिकादिभिः यथा 8
पूर्यते तथाऽऽह-एवं चेव'इत्यादि, व्यक्तं, नवरं अवशेषाश्च-आभ्यन्तरपार्षद्यादयः। अथ प्रतिष्ठासोः शक्रस्य पुरः 18 प्रस्थायिनां क्रममाह-'तए णं तस्स'इत्यादि, एतद्व्याख्या भरतचक्रिणोऽयोध्याप्रवेशाधिकारतो ज्ञेया, 'तए ण'-181
मित्यादि, तदनन्तरं छत्रं च भृङ्गारं च छत्रभृङ्गारं समाहारादेकवद्भावः, छत्रं च 'वेरुलिअभिसंतविमलदण्ड'मित्यादिवर्णकयुक्तं भरतस्यायोध्याप्रवेशाधिकारतो ज्ञेयं, भृङ्गारश्च विशिष्टवर्णकचित्रोपेतः, पूर्व च भृङ्गारस्य जलपूर्णत्वेन कथनात् अयं च जलरिक्तत्वेन विवक्षित इति न पौनरुक्त्यं, तदनन्तरं वज्रमयो-रत्नमयः तथा वृत्तं-वर्तुलं लष्टं-मनोज्ञं । संस्थितं-संस्थानं आकारो यस्य स तथा, तथा सुश्लिष्टः-सुश्लेषापन्नावयवो मसृण इत्यर्थः परिघृष्ट इव परिघृष्टः
खरशाणया पाषाणप्रतिमावत् मृष्ट इव मृष्टः सुकुमारशाणया पाषाणप्रतिमेव सुप्रतिष्ठितो न तु तिर्यपतितया | वक्रस्तत एतेषां पदद्वयश्मीलनेन कर्मधारयः, अत एव शेषध्वजेभ्यो विशिष्टः-अतिशायी, तथाऽनेकानि वराणि
पञ्चवर्णानि कुडभीनां-लघुपताकानां सहस्राणि तैः परिमण्डितः-अलंकृतः स चासावभिरामश्चेति, वातोद्भूतेत्यादि| विशेषणद्वयं व्यक्तं, तथा गगनतलं-अम्बरतलमनुलिखत्-संस्पृशत् शिखरं-अग्रभागो यस्य स तथा, योजनसहस्रमुत्सृतोऽत एवाह--'महइमहालए'इति अतिशयेन महान महेन्द्रध्वजः पुरतो यथानुपूा सम्पस्थित इति, 'तए ण'मित्यादि, तदनन्तरं स्वरूपं-स्वकर्मानुसारि नेपथ्यं-वेषः परिकच्छितः-परिगृहीतो यैस्तानि तथा, सुसज्जानि
Macbook Messeyề
श्रीजम्बू. ६८
JainEducation
For Private Personal use only
jainelibrary.org