________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥४०३॥
Jain Education In
| पूर्ण सामग्रीकतया प्रगुणानि सर्वालङ्कारविभूषितानि पञ्चानीकानि पञ्चानीकाधिपतयश्च पुरतो यथानुपूर्व्या सम्प्रस्थितानि, 'तयणन्तरं च ण' मित्यादि, तदनन्तरं बहवः आभियोगिका देवाश्च देव्यश्च स्वकैः स्वकैः रूपैः- यथास्वकर्मो|पस्थितैरुत्तरवै क्रियस्वरूपैर्यावच्छन्दात्स्वकैः स्वकैः विभवैः - यथास्वकम्मोपस्थितैर्विभवैः - सम्पत्तिभिः स्वकैर्नियोगैः - उपकरणैः शक्रं देवेन्द्रं देवराजं पुरतश्च मार्गतश्च - पृष्ठतः पार्श्वतश्च उभयोः यथानुपूर्व्या यथावृद्धक्रमेण सम्प्रस्थिताः, ' तयणन्तरं च ण'मित्यादि, तदनन्तरं बहवः सौधर्मकल्पवासिनो देवाश्च देव्यश्च सर्व यावत्करणादिन्द्रस्य हरिनि - गमेषिणं पुरः स्वाज्ञतिविषयकः प्रागुक्त आलापको ग्राह्यः तेन स्वानि २ यानविमानवाहनानि आरूढाः सन्तो मार्गतश्च यावच्छब्दात् पुरतः पार्श्वतश्च शक्रस्य सम्प्रस्थिताः । अथ यथा शक्रः सौधर्मकल्पान्निर्याति तथा चाह'तए ण' मित्यादि, ततः स शक्रस्तेन - प्रागुक्तस्वरूपेण पञ्चभिः संग्रामिकैरनीकैः परिक्षिप्तेन - सर्वतः परिवृतेन यावत् पूर्वोक्तः सर्वो महेन्द्रध्वजवर्णको ग्राह्यः, महेन्द्रध्वजेन पुरतः प्रकृष्यमाणेन - निर्गम्यमानेन चतुरशीत्या सामानिकस| हसैर्यावत्करणात् 'चउहिं चउरासीहिं आयरक्खदेवसाहस्सीहिं' इत्यादि ग्राह्यं, परिवृतः सर्वर्ज्या यावद्रवेण याव - त्करणात् 'सब्वज्जुईए' इत्यादि प्रागुक्तं ग्राह्यं, सौधर्मस्य कल्पस्य मध्यंमध्येन तां दिव्यां देवद्धि यावच्छन्दाद् 'दिवं देवजुइं दिवं देवाणुभाव' इति ग्रहः, सौधर्मकल्पवासिनं देवानामुपदर्शयन् २ यत्रैव सौधर्मकल्पस्योत्तराहो निर्याणमार्गो-निर्गमनसम्बन्धी पन्थास्तत्रैवोपागच्छति, यथा वरयिता नागराणां विवाहोत्सवस्फातिदर्शनार्थ राजपथे
For Private & Personal Use Only
CocaColacataes
वक्षरकारे जन्ममहे शक्रेन्द्राग
मः सू. ११७
॥४०३॥
jainelibrary.org