________________
Jain Education Inte
आत्मरक्षकदेवसहस्राणां पत्रिंशत्सहस्राधिकलक्षत्रय मितानामात्मरक्षकदेवानामित्यर्थः, तावन्ति भद्रासनानि विकुर्वि - तानीत्यर्थः, एवमादि विभाषितव्यं - इत्यादि वक्तव्यं सूर्याभगमेन यावत्प्रत्यर्पयन्ति, यावत्पदसंग्रहश्चायम्- 'तस्स णं दिवस जाणविमाणस्स इमे एआरूवे वण्णावासे पण्णत्ते, से जहा णामए अइरुग्गयस्स हेमंतिअबालसूरिअस्स खाइलिंगालाण वा रत्तिं पज्जलिआणं जासुमणवणस्स वा केसुअवणस्स वा पलिजायवणस्स वा सबओ समन्ता संकुसुमिअ| स्स, भवे एआरूवे सिआ ?, णो इण्डे समट्ठे, तस्स णं दिवस्स जाणविमाणस्स इत्तो इट्ठतराए चेव ४ वण्णे पण्णत्ते, गन्धो फासो अ जहा मणीणं, तए णं से पालए देवे तं दिवं जाणविमाणं विबित्ता जेणेव सके ३ तेणेव उवागच्छइ २ त्ता सकं ३ करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलिं कट्टु जपणं विजएणं वद्वावेइ २ ता तमाणत्तिअ' मिति, अत्र व्याख्या - तस्य दिव्यस्य यानविमानस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, स यथानाम कोऽचिरोद्गतस्य - तत्कालमुदितस्य | हैमन्तिकस्य- शिशिरकालसम्बन्धिनो वालसूर्यस्य खादिराङ्गाराणां वा 'रत्ति' मिति सप्तम्यर्थे द्वितीया रात्रौ प्रज्वालि तानां जपावनस्य वा किंशुकवनस्य वा पारिजाताः - कल्पद्रुमास्तेषां वनस्य वा सर्वतः समन्तात् सम्यक् कुसुमितस्य, | अत्र शिष्यः पृच्छति - भवेदेतद्रूपः स्यात् - कथञ्चित् ?, सूरिराह - नायमर्थः समर्थः, तस्य दिव्यस्य यानविमानस्य इत | इष्टतरक एवं कान्ततरक एवेत्यादि प्राग्वद्, गन्धः स्पर्शश्च यथा प्रामणीनामुक्तस्तथेति, ननु अत्रैव पालक विमा|नवर्णके प्राग्मणीनां वर्णादय उक्ताः पुनर्विमानवर्णकादिकथनेन पुनरुक्तिरिति चेत्, मैवं, पूर्व हि अवयवभूतानां
For Private & Personal Use Only
jainelibrary.org