SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ उपरिभागः पद्मलताभक्तिचित्रः यावत्सर्वात्मना तपनीयमयः प्रथमयावच्छब्देन अशोकलताभक्तिचित्र इत्यादिपरिग्रहः ह: ५वक्षस्कारे द्वीपशा- द्वितीययावच्छब्दाद् अच्छे सण्हे इत्यादिविशेषणग्रहः, अत्र च राजप्रश्नीये सूर्याभयानविमानवर्णकेऽक्षपाटकसूत्र जन्ममहे न्तिचन्द्राश्य ते परं बहुप्वेतत्सूत्रादर्शेषु अदृष्टत्वान्न लिखितं, अथात्र मणिपीठिकावर्णनायाह-'तस्स ण'मित्यादि, व्यक्तं, यानविमानं या वृत्तिः 'तीए उवरिं'इत्यादि, एतद्व्याख्या विजयद्वारस्थप्रकण्ठकप्रासादगतसिंहासनसूत्रवदवसेया। 'ते ण'मित्यादि, इदसू. ११६ ॥४०॥ सूत्रं प्राक् पद्मवरवेदिकाजालवर्णके व्याख्यातमिति ततो वोध्यं, अत्र प्रथमयावत्पदात् 'वेइज्जमाणा २ पलम्बमाणा २ पझंझमाणा २ ओरालेणं मणुण्णेणं मणहरेणं कण्णमण'इति संग्रहः, द्वितीययावत्पदात् 'ससिरीए' इति ग्राह्यं, सम्प्रति अत्रास्थाननिवेशनप्रक्रियामाह--'तस्स ण'मित्यादि, 'तस्य' सिंहासनस्य पालकविमानमध्यभागवर्तिनोऽपरोत्तरायां-वायव्यामुत्तरस्यां उत्तरपूर्वायां-ऐशान्यां अत्रान्तरे शक्रस्य चतुरशीतेः सामानिकसहस्राणां चतुरशीतिभद्रासनसहस्राणि, उक्कदिक्त्रये चतुरशीतिभद्रासनसहस्राणीत्यर्थः, पूर्वस्यां दिश्यष्टानामग्रमहिषीणामष्ट भद्रासनानि, एवं दक्षिणपू यां-अग्निकोणेऽभ्यन्तरपर्षदः सम्बन्धिनां द्वादशानां देवसहस्राणां द्वादश भद्रासनसहस्राणि दक्षिणस्यां मध्यमायाः पर्ष. दश्चतुर्दशानां देवसहस्राणां चतुर्दश भद्रासनसहस्राणि दक्षिणपश्चिमायां-नैर्ऋतकोणे बाह्यपर्षदः षोडशानां देवसहस्राणां ॥४०॥ पोडश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानीति, 'तए णमित्यादि, 'ततः' प्रथमवलयस्थापनानन्तरं द्वितीये वलये तस्य सिंहासनस्य चतुर्दिशि चतसृणां चतुरशीतानां-चतुर्गुणीकृतचतुरशीतिसंख्याकानां| Jain Education intene For Private Personal use only Jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy