________________
Jain Education
अप्येकका जीतमेतद् यत् सम्यग्दृष्टिदेवैर्जिनजन्ममहे यतनीयं, 'एवमादी' त्यादिकमागमननिमित्तमितिकृत्वा - चित्ते| वधार्थ यावच्छन्दात् 'अकालपरिहीणं चैव सक्कस्स देविंदस्स देवरण्णो 'इति ग्राह्यं, अन्तिकं प्रादुर्भवन्ति, अथ शक्रस्येतिकर्त्तव्यमाह - 'तए ण'मित्यादि, ततः शक्रो देवेन्द्रो देवराजा तान् बहून् वैमानिकान् देवान् उपतिष्ठमानान् पश्यति | दृष्ट्वा च हट्टतुट्ट इत्येकदेशेन सर्वोऽपि हर्षालापको ग्राह्यः, पालकनामविमान विकुर्वणाधिकारिणमाभियोगिकं देवं शब्दयन्ति, शब्दयित्वा च एवमवादीत्, यदवादीत्तदाह - 'खिप्पामेव 'त्ति, इदं यानविमानवर्णकं प्राग्वत्, नवरं योजनशतसहस्रविस्तीर्णमित्यत्र प्रमाणांगुलनिष्पन्नं योजनलक्षं ज्ञेयं, ननु वैक्रियप्रयोगजनितत्वेनोत्सेधांगुलनिष्पन्नत्वमप्यस्य कुतो नेति चेन्न 'नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु' इति वचनात् अस्य प्रमाणांगुलनिष्पन्नत्वं युक्तिमत् न च 'नगपुढ विविमाणाई'ति वचनं शाश्वतविमानापेक्षया न यानविमानापेक्षयेत्ति ज्ञेयं, अस्योत्सेधांगुलप्रमाणनिष्पन्नत्वे जम्बूद्वीपान्तः सुखप्रवेशनीयत्वेन नन्दीश्वरे विमानसंकोचनस्य वैयर्थ्यापत्तेः तथा श्रीस्थानाङ्गे चतुर्थाध्ययने 'चत्तारि लोगे समा पण्णत्ता, तंजहा - अपइडाणे णरए १ जम्बुद्दीवे दीवे २ पालए जाणविमाणे ३ सबट्टसिद्धे महाविमाणे ४' | इत्यत्रापि पालकविमानस्य जम्बूद्वीपादिभिः प्रमाणतः समत्वं प्रमाणांगुलनिष्पन्नत्वेनैव सम्भवतीति दिक्, तथा पश्च| शतयोजनोच्चं शीघ्रं त्वरितजवनं, अतिशयेन वेगवदित्यर्थः, निर्वाहि प्रस्तुतकार्यनिर्वहणशीलं पश्चात् पूर्वपदेन कर्मधा
For Private & Personal Use Only
jainelibrary.org