SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥३९८॥ Jain Education चित्तत्वेऽपि कदाचिन्नोपयोगः स्याच्छाद्मस्थ्यवशादत आह- उपयुक्तमानसाः-शुश्रूषितवस्तुग्रहणपटुमनसस्ततो विशेषणसमासस्तेषां स पदात्यनीकाधिपतिर्देवस्तस्मिन् घण्टारवे नितरां शान्तः - अत्यन्तमन्दभूतः ततः प्रकर्षेण - सर्वात्मना | शान्तः प्रशान्तः ततश्छिन्नप्ररूढ इत्यादाविव विशेषणसमासस्तस्मिन् सति, तत्र तत्र - महति देशे तस्मिन् २- देशैकदेशे महता महता शब्देन - तारतारस्वरेण उद्घोषयन् २ एवमवादीत् किमवादीदित्याह -- 'हंत सुण' मित्यादि, हन्त ! | इति हर्षे स च स्वस्वस्वामिनाऽऽदिष्टत्वात् जगद्गुरुजन्ममहकरणार्थकप्रस्थान समारम्भाच्च, शृण्वन्तु भवन्तो बहवः सौधमकल्पवासिनो वैमानिका देवा देव्यश्च सौधर्मकल्पपतेरिदं वचनं हितं -जन्मान्तरकल्याणावहं सुखं तद्भवसम्बन्धि | तदर्थमाज्ञापयति, भो देवाः ! शक्रः तदेव ज्ञेयं यत्प्राक्सूत्रे शक्रेण हरिनैगमेषिपुर उद्घोषयितव्यमादिष्टं यावत्प्रा| दुर्भवत । अथ शक्रादेशानन्तरं यद्देवविधेयं तदाह - ततस्ते देवा देव्यश्च एनं अनन्तरोदितमर्थं श्रुत्वा हृष्टतुष्टयावद् | हर्षवशविसर्पहृदयाः अपिः सम्भावनायामेककाः - केचन वन्दनं - अभिवादनं प्रशस्तकाय वाङ्मनः प्रवृत्तिरूपं तत्प्रत्ययं तदस्माभिस्त्रिभुवनभट्टारकस्य कर्त्तव्यमित्येवंनिमित्तं एवं 'पूजनप्रत्ययं' पूजनं - गन्धमाल्यादिभिः समभ्यर्चनं एवं 'सत्कारप्रत्ययं' सत्कार:- स्तुत्यादिभिर्गुणोन्नतिकरणं सन्मानो - मानसप्रीतिविशे पस्तत्प्रत्ययं दर्शनं - अदृष्टपूर्वस्य जिनस्य विलो - | कनं तत्प्रत्ययं कुतूहलं - तत्र गतेनास्मत्प्रभुणा किं कर्त्तव्यमित्यात्मकं तत्प्रत्ययं, अध्येककाः शक्रस्य वचनमनुवर्त्तमानाः न हि प्रभुवचनमुपेक्षणीयमिति भृत्यधर्ममनुश्रयन्तः अप्येककाः अन्यमन्यं मित्रमनुवर्त्तमाना मित्रगमनानुप्रवृत्ता इत्यर्थः | For Private & Personal Use Only ५वक्षस्कारे इन्द्रकृत्ये पालकवि मानं सू. ११५ ॥३९८ ॥ w.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy