________________
योजनीयः, अथ घण्टानादतो यत् प्रवृत्तं तदाह-'तए ण'मित्यादि, 'ततो' घण्टानां कणकणारावप्रवृत्तेरनन्तरं सौधर्मः कल्पः प्रासादानां विमानानां वा ये निष्कुटा-गम्भीरप्रदेशास्तेषु ये आपतिताः-सम्प्राप्ताः शब्दाः-शब्दवर्गणापुद्गलास्तेभ्यः समुत्थितानि यानि घण्टाप्रतिश्रुतां-घण्टासम्बन्धिप्रतिशब्दानां शतसहस्राणि तैः संकुलो जातश्चाप्यभूत् , किमुक्तं भवति ?-घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघातवशतः सर्वासु दिक्षु || विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलोऽपि सौधर्मः कल्पो बधिर उपजायत इति, एतेन द्वादशयोजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति न परतः ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरुपजायत इति यदुच्यते तदपाकृतमवसेयं, सर्वत्र दिव्यानुभावतस्तथारूपप्रतिरूपशब्दोच्छलने यथोक्तदोषासम्भवात् , एवं| शब्दमये सौधर्मे कल्पे सञ्जाते पदातिपतिर्यदकरोत् तदाह-'तए ण'मित्यादि, ततः-शब्दव्यायनन्तरं तेषां सौध. मैकल्पवासिनां बहूनां वैमानिकानां देवानां देवीनां च एकान्तेन रतौ-रमणे प्रसक्ता-आसक्ता अत एव नित्यप्रमत्ता विषयसुखेषु मूच्छिता-अध्युपपन्नास्ततः पदत्रयस्य पदद्वय २ मीलनेन कर्मधारयस्तेषां सुस्वरा या पंक्तिरथन्यायेन सुघोषा| घण्टा तस्याः रसितं तस्माद् विपुल:-सकलसौधर्मदेवलोककुक्षिम्भरियों बोल:-कोलाहलस्तेन, अत्र तृतीयालोपः प्राकृतत्वात् , त्वरितं-शीघ्रं चपले-ससम्भ्रमे प्रतिबोधने कृते सति आगामिकालसम्भाव्यमाने घोषणे कुतूहलेन-किमिदानीमुद्घोषणं भविष्यतीत्यात्मकेन दत्तौ करें यैस्ते तथा, एकाग्रं-घोषणश्रवणैकविषयं चित्तं येषां ते तथा, एकाग्र
RECReeeeeeeeeeeeeeeeee
Jan Education inte
For Private
Personel Use Only
Hiainelibrary.org