SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 'तेणं कालेण'मित्यादि, तस्मिन् काले तस्मिन् समये इत्यत्र समयो दिक्कुमारीकृत्यानन्तरीयत्वेन विशेषणीयः शको नाम सौधर्माधिपतिरित्यादिव्याख्यानं कल्पसूत्रटीकादौ प्रसिद्धत्वान्नात्र लिख्यते, अथ वन्दननमस्करणानन्तरं शक्रस्य सिंहासनोपवेशने यदभूत्तदाह-'तए णं तस्स सकस्स इत्यादि, 'ततः' सिंहासनोपवेशनानन्तरं तस्य शक्रस्य देवे न्द्रस्य देवराज्ञः अयमेतादृशो यावत्सङ्कल्पः समुदपद्यत, कोऽसावित्याह-उत्पन्नः खलु भो! जम्बूद्वीपे द्वीपे भगवां1स्तीर्थकरः तस्माज्जीतमेतदतीतप्रत्युत्पन्नानागतानां शक्राणां देवेन्द्राणां देवराज्ञां तीर्थकराणां जन्ममहिमा कर्तुं तद् गच्छामि णमिति प्राग्वत् अहमपि भगवतस्तीर्थकरस्य जन्ममहिमा करोमीतिकृत्वा-इतिहेतुमुद्भाव्यैवं-वक्ष्यमाणं सम्प्रेक्षते सम्प्रेक्ष्य च हरे:-इन्द्रस्य निगम-आदेशमिच्छतीति हरिनिगमेषी तं अथवा इन्द्रस्य नैगमेपी नामा देवस्त | | पदात्यनीकाधिपतिं देवं शब्दयति शब्दयित्वा चैवमवादीत्, किमवादीदित्याह-खिप्पामेव भो' इत्यादि, क्षिप्रमेव | भो देवानुप्रिया! सभायां सुधर्मायां मेघानामोघः-संघातो मेघौघस्तस्य रसितं-गर्जितं तद्वद् गम्भीरो मधुरतरश्च |शब्दो यस्याः सा तथा तां योजनप्रमाणं परिमण्डलं-भावप्रधानत्वान्निर्देशस्य पारिमाण्डल्यं-वृत्तत्वं यस्याः सा तथा तां सुघोपां नाम सुस्वरां घण्टा त्रिकृत्त्व:-त्रीन् वारान् उल्लालयन् २-ताडयन् २ महता २ शब्देनोद्घोषयन् २ एवं वद-1 आज्ञापयति भो देवाः! शक्रो देवेन्द्रो देवराजा, किमित्याह-गच्छति भोः! शक्रो देवेन्द्रो देवराजा जम्बूद्वीपे द्वीपे | श्रीजम्बू. ६७ भगवतस्तीर्थकरस्य जन्ममहिमा कर्तुं, सामान्यतो जिनवर्णके प्रक्रान्तेऽपि यजम्बूद्वीपनामग्रहणं तज्जम्बूद्वीपप्रज्ञप्त्यधि 102929098888888oces Jain Education For Private Personal use only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy