SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ नन्दन्ति पट्टयुवराजपदं दधानाः, श्रीसूरयो विजयदेवयतिप्रधानाः॥२९॥ श्रीविजयसेनसूरी-श्वरगणनायकनिदेशकरणचणाः । चत्वारोऽस्या वृत्तेः शुद्धिकृते सङ्गता निपुणाः॥३०॥ तथाहिश्रीसूरेविजयादिदानसुगुरोः श्रीहीरसूरेरपि, प्राप्ता वाङ्मयतत्त्वमद्भुततरं ये सम्प्रदायागतम् । ये जैनागमसिन्धुतारणविधौ सत्कर्णधारायिता, ये ख्याताः क्षितिमण्डले च गणितग्रन्थज्ञरेखाभूतः॥३१॥ लुम्पाकमुख्यकुमतैकतमःप्रपञ्चे, रोचिष्णुचण्डरुचयः प्रतिभासमानाः। श्रीवाचका विमलहवराभिधानास्तेऽत्रादिमा गुणगणेषु कृतावधानाः ॥ ३२॥ तथा-ये संविग्नधुरन्धराः समभवन्नाबालकालादपि, प्रज्ञावत्स्वपि ये च बन्धुरतराः प्रापुः प्रसिद्धिं पराम् । श्रीवीरे गणधारिगौतम इव श्रीहीरसूरी गुरौ, ये राजद्विनयास्तदातनसुधाभानोः पटुर्वासुधाम् ॥३॥ सत्तलक्षणविशालजिनागमादिशास्त्रावगाहनकलाकुशलाद्वितीयाः। श्रीसोमयुग्विजयवाचकनामधेयास्ते सद्गुणैरपि परै वमप्रमेयाः ॥ ३४ ॥ किच-ये वैरङ्गिकतादिकैर्वरगुणैः सम्प्राप्तसद्गौरवाः, सर्वादेयगिरः कलावपि युगे साम्नायजैनागमाः। जजुः श्रीवरवानरर्षिविबुधास्तच्छिष्यमुख्याश्च ये, किं तन्मूर्तिरिवापरेत्यभिमतास्तैस्तैर्गुणैधीमताम् ॥ ३५ ॥ Jain Education For Private Personel Use Only
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy