SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृतिः ॥५४३॥ आदिकोडैरियो/ चिकिलभरगता दुष्प्रमादावमन्ना, यैरुद्दभ्रे वितन्द्रैः स्वपरहितकृते सत्क्रिया सक्रियाहा॑ ॥ ६॥ 8 प्रशस्तिः, अदुष्यं वैदुष्यं चरणगुणवैदुष्यसहितं, प्रमादाद्वैमुख्य प्रवचनविधेः सत्कथकता । गुणोघो यस्येत्थं न खलदुर्वाक्यविषयः, क्रमादासीदस्मिन् परमगुरुरानन्दविमलः ॥७॥ अन्तर्बाह्यमिति द्विधापि कुमतं श्रद्धावतां स्वागतं, निःश्रद्धैस्तु यथाशयं प्रकटितं विच्छिन्दतोऽस्य प्रभोः।। बाह्यध्वान्तविभेदिनो दिनमणेः साम्यं न रम्यं न वा, ध्वान्तद्वैतभिदोऽपि मन्दिरमणेः संरक्षतोऽधस्तमः॥ ८॥ स्वगच्छे स्वस्मिंश्च प्रथयति तरां स्म प्रथमतस्तथा साधोश्चर्या ध्रुवसमय एंव प्रभुरसौ । यथा सैतत्पट्टाधिपतिपुरुषे संयतगणे, क्रमाद्गुर्वी गुर्वी प्रजनितयशस्काऽनुववृते ॥९॥ तत्पभूषणमणिः सुगुरूप्तधर्मबीजप्रवर्द्धनपटुर्भरतक्षमायाम् । सूरीश्वरो विजयदानगुरुर्बभूव, के वादिनो विजयदा न बभूवुरस्य ? ॥१०॥ नालीकनीरनिधिनिर्जरसिन्धुसेवां, चक्रुश्चतुर्मुखचतुर्भुजचन्द्रचूडाः। यस्य प्रतापपरितापभृतो न भीता, एते जडाश्रयिण इत्यपवादतोऽपि ॥ ११॥ ॥५४३॥ तत्पदं गुरुहीरहीरविजयो बिभ्राजयामासिवान , जाग्रद्भाग्यनिधिः प्रियागमविधिश्चारित्रिणां चावधिः। यं सम्प्राप्य जगत्रयैकसुभगं मुक्तो मिथो मत्सरः, श्रीवाग्भ्यामिव दीर्घकालजनितो ज्ञानक्रियाभ्यामपि ॥ १२॥ en Edeninen For Private Personal Use Only
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy