SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः । श्रेय:श्रीप्रतिभूप्रभूततपसा यो मोहराज रिपुं, दध्वंसे सहसा श्रितो गतमलं ज्ञानं च यः केवलम् । यो जुष्टश्च सदा त्रिविष्टपसदां वृन्दैस्तथा तथ्यवाग्, यस्तीर्थाधिपतिः श्रियं स ददतां श्रीवीरदेवः सताम् ॥१॥ अर्हत्स्विवात्र निखिलेषु गणाधिपेषु, वामेयदेव इव यो विदितो जगत्याम् । आदेयतामदधदद्भुतलब्धिधाम, श्रीगौतमोऽस्तु सम (मम) पूरितसिद्धिकामः ॥ २॥ यं पञ्चमं प्रथमतोऽपि रतोपयेमे, श्रीवीरपट्टपटुलक्ष्मिसरोरुहाक्षी । रुद्राङ्कितेषु गणभृत्सु सुधर्मनामा, भूयादयं सुभगतानिधिरिष्टसिद्ध्यै ॥३॥ तस्य प्रभोः स्थविरवृन्दपरम्परायां, तत्तल्लसत्कुलगणावलिसम्भवायाम् । जातः क्रमाद् वटगणेन्द्रतपस्विसूरेः, श्रीमांस्तपागण इति प्रथितः पृथिव्याम् ॥ ४॥ पद्मावतीवचनतोऽभ्युदयं विभाव्य, यत्सूरये स्तवनसप्तशती स्वकीयाम् । सूरिर्जिनप्रभ उपप्रददे प्रथायै, सोऽयं सतां तपगणो न कथं प्रशस्यः ॥५॥ तत्रानेके बभूवुः सुविहितगुरवःश्रीजगचन्द्रमुख्याः, दोषायां वा दिवा वा सदसि रहसि वा स्वक्रियास्वेकभावाः।। Jain Education a l For Private & Personel Use Only INwjainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy