________________
इत्यादि, जम्बूद्वीपे भदन्त! द्वीपे जघन्यपदे सर्वस्तोके स्थाने वा उत्कृष्टपदे सर्वोत्कृष्ट स्थाने वा विचार्यमाणे इति शेषः। || कियन्तस्तीर्थकराः सर्वाग्रेण-सर्वसंख्यया केवलिदृष्टमात्रया इत्यर्थः प्रज्ञप्ताः?, गौतम! जघन्यपदे चत्वारः प्राप्यन्ते, ||
तथाहि-जम्बूद्वीपस्य पूर्वविदेहे शीतामहानद्या द्विभागीकृते दक्षिणोत्तरदिग्भागयोरेकैकस्य सद्भावात् द्वौ अपरविदेहेऽपि || शीतोदया महानद्या द्विभागीकृते तथैव द्वौ जिनेन्द्रौ मिलिताश्चत्वारः, भरतैरावतयोस्तु एकान्तसुषमादावभाव एव, || उत्कृष्टपदे चतुस्त्रिंशत्तीर्थकराः सर्वाग्रेण प्रज्ञप्ताः, तथाहि-महाविदेहे प्रतिविजयं भरतैरावतयोश्चैकैकस्य सम्भव इति। सर्वमीलने चतुस्त्रिंशत् , एषां हि भगवतां स्वस्वक्षेत्रवर्तिभिश्चक्रिभिरर्द्धचक्रिभिश्च सहानवस्थानलक्षणविरोधासम्भवात्,
एतच्च विहरमानजिनापेक्षया बोद्ध्यं, न तु जन्मापेक्षया, तच्चिन्तायां तूत्कृष्टपदे चतुस्त्रिंशतस्तीर्थकराणामसम्भवादिति । ॥ अथात्रैव जघन्योत्कृष्टपदाभ्यां चक्रिणः पृच्छति-'जम्बुद्दीवे'इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे कियन्तो जघन्यपदे |३||
वा उत्कृष्टपदे वा चक्रवर्तिनः प्रज्ञप्ताः?, भगवानाह-गौतम! जघन्यपदे चत्वारः उपपत्तिस्तु तीर्थङ्कराणामिव, उत्कृष्टपदे त्रिंशचक्रवर्तिनः सर्वाग्रेण प्रज्ञप्ताः, कथमिति चेत्, उच्यते, द्वात्रिंशद्विजयेषु वासुदेवस्वामिकान्यतरविजयच-| तुष्कवर्जितविजयसत्काऽष्टाविंशतिः भरतरावतयोस्तु द्वाविति पूर्वापरमीलितास्त्रिंशत्, यदा महाविदेहे उत्कृष्टपदेडष्टाविंशतिश्चक्रिणः प्राप्यन्ते तदा नियमाच्चतुर्णामर्द्धचक्रिणां सम्भवेन तन्निरुद्धक्षेत्रेषु चक्रिणामसम्भवात् , चक्रिणामर्द्धच-9 क्रिणां च सहानवस्थानलक्षणविरोधादिति, अथात्र तथैव बलदेवानर्द्धचक्रिणश्चाह-'बलदेवातत्तिआ'इत्यादि, बलदेवा
Jain Education
For Private & Personel Use Only
1Ow.jainelibrary.org