________________
resectioedeseeeeeeeeed
दर्शनात् , अथ तृतीयं द्वारं पृच्छति-'मन्दरस्सणं भन्ते!' इत्यादि, मन्दरस्य भदन्त! पर्वतस्य कियत्याऽबाधया-अपान्तरालेन ज्योतिश्चक्र चारं चरति?, भगवानाह-गौतम! जगत्स्वभावात् एकादशभिरेकविंशत्यधिकोजनशतैरित्येवंरूपयाऽबाधया ज्योतिषं चार चरति, किमुक्तं भवति?-मेरुतश्चक्रवालेनैकविंशत्यधिकान्येकादशयोजनशतानि मुक्त्वा चलं ज्योतिश्चक्रं तारारूपं चारं चरति, प्रक्रमाजम्बूद्वीपगतमवसेयं, अन्यथा लवणसमुद्रादिज्योतिश्चक्रस्य मेरुतो दूरवतित्वेन उक्तप्रमाणासम्भवः, पूर्व तु सूर्यचन्द्रवक्तव्यताधिकारे अबाधाद्वारे सूर्यचन्द्रयोरेव मेरुतोऽबाधा उक्ता साम्प्रतं | तारापटलस्यैति न पूर्वापरविरोध इति। अथ स्थिरं ज्योतिश्चक्रमलोकतः कियत्या अबाधया अर्वाक् अवतिष्ठत इति पिपृच्छिषुश्चतुर्थ द्वारमाह-'लोगन्ताओ ण'मित्यादि, लोकान्ततो-अलोकादितोऽर्वाक् कियत्या अबाधया प्रक्रमात् स्थिरं । | ज्योतिश्चक्रं प्रज्ञप्तं ?, भगवानाह-गौतम! जगत्स्वभावात् एकादशभिरेकादशाधिकैर्योजनशतैरवाधया ज्योतिषं प्रज्ञप्तं, प्रक्रमात् स्थिरं बोध्यम् , चरज्योतिश्चक्रस्य तत्राभावादिति । अथ पञ्चमं द्वारं पृच्छति-धरणितलाओं णं भन्ते'! इत्यनेन तत्सूत्रैकदेशेन परिपूर्ण प्रश्नसूत्रं बोध्यं, तच्च 'धरणितलाओ णं भन्ते ! उद्धं उप्पइत्ता केवइआए अबाहाए हिडिल्ले जोइसे चारं चरइ ?, गोअमा!' इत्यन्त, वस्त्वेकदेशस्य वस्तुस्कन्धस्मारकत्वनियमात्, तत्रायमर्थः-धरणितलात्-समयप्रसिद्धात् समभूतलभूभागादूर्ध्वमुत्पत्य कियत्याऽवाधया अधस्तनं ज्योतिष तारापटलं चारं चरति?, भगवानाह-गौतम! सप्तभिर्नवतैः-नवत्यधिकयोंजनशतैरित्येवंरूपया अबाधया अधस्तनं ज्योतिश्चक्र चारं चरति, अथ सूर्यादि
39098290999
धीजम्ब. 22INI Jain Education International
For Private & Personal Use Only
ww.jainelibrary.org