SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥३९४॥ संहरन्ति, ततस्ते मध्यरुचकवास्तव्याश्चतस्रो दिकुमारीमहत्तरिकाः शरकं - शरप्रतिकृतितीक्ष्णमुखमभ्युत्पादकं काष्ठ विशेषं | कुर्वन्ति कृत्वा च तेनैव शरकेन सह अरणिं-लोकप्रसिद्धं काष्ठविशेषं घटयन्ति - संयोजयन्ति, घटयित्वा च शरकेनाग्निं मनन्ति, मथित्वा च अग्निं पातयन्ति, पातयित्वा च अग्निं सन्धुक्षन्ति - सन्दीपयन्ति, सन्धुक्ष्य च गोशीर्षचन्दनकाष्ठानि प्रस्तावात् खण्डशः कृतानीति बोध्यं यादृशैश्चन्दनकाष्ठैरग्निरूद्दीपितः स्यात् तादृशानीतिभावः, प्रक्षिपन्ति प्रक्षिप्य च अग्निमुज्वालयन्ति उज्ज्वाल्य च प्रदेशप्रमाणानि हवनोपयोगीनीन्धनानि समिधस्तद्रूपाणि काष्ठानि प्रक्षिपन्ति, पूर्वो हि काष्ठप्रक्षेपोऽयुद्दीपनाय अयं च रक्षाकरणायेति विशेषः, प्रक्षिप्य च अग्निहोमं | कुर्वन्ति कृत्वा च भूतेः - भस्मनः कर्म - क्रिया तां कुर्वन्ति, येन प्रयोगेणेन्धनानि भस्मरूपाणि भवन्ति तथा कुर्वन्तीत्यर्थः, कृत्वा च जिनजनन्योः शाकिन्यादिदुष्टदेवताभ्यो दृग्दोषादिभ्यश्च रक्षाकरीं पोट्टलिकां बध्नन्ति, बद्धा च नानामणिरलानां भक्ती -रचना तया विचित्रौ द्वौ पाषाणवृत्तगोलको पाषाणगोलकावित्यर्थः गृह्णन्ति गृहीत्वा च भगवतस्तीर्थकरस्य कर्णमूले टिट्टिआवेंतीत्यनुकरणशब्दोऽयं तेन टिट्टिआवेंति - परस्परं ताडनेन टिट्टीतिशब्दोत्पादनपूर्वकं वादयन्तीत्यर्थः, अनेन हि बाललीलावशादन्यत्र व्यासक्तं भगवन्तं वक्ष्यमाणाशीर्वचनश्रवणे पहुं कुर्वन्तीति भावः, तथा कृत्वा च भवतु | भगवान् पर्वतायुः २ इत्याशीर्वचनं ददतीति, ततः - उक्तसकल कार्यकरणानन्तरं ता रुचकमध्यवास्तव्याश्चतस्त्रो दिकुमारीमहत्तरिका भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च बाहाभिर्गृह्णन्ति गृहीत्वा च यत्रैव भगवतस्तीर्थकरस्य Jain Education Internation For Private & Personal Use Only पवक्षस्कारे रुचकवा - सिकुमार्यु त्सवः सू. ११४ ॥ ३९४ ॥ www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy