________________
च शतपाकैः सहस्रपाकैः-शतकृत्वोऽपरापरौषधिरसेन कार्षापणानां शतेन वा यत्पक्कं तच्छतपाकमेवं सहस्रपाकमपि बहुवचनं तथाविधसुरभितैलसंग्रहार्थं तैलैरभ्यङ्गयंति तैलमभ्यंजयंतीत्यर्थः, अभ्यङ्गयित्वा च सुरभिणा गन्धवर्त्तकेन गन्धद्रव्याणां-उत्पलकुष्ठादीनामुर्तकेन-चूर्णपिण्डेन गन्धयुक्तगोधूमचूर्णपिण्डेन वा उद्वर्त्तयन्ति प्रक्षिततेलापनयनं कुर्वन्ति उद्वर्त्य च भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च बाह्वोर्गृह्णन्ति गृहीत्वा च यत्रैव पौरस्त्यं कदलीगृहं यत्रैव चतुःशालं यत्रैव च सिंहासनं तत्रैवोपागच्छन्ति उपागत्य च भगवन्तं तीर्थकरं तीर्थकरमातरं च सिंहासने निषादयन्ति निषाद्य च त्रिभिरुदकैर्मजयंति-स्नपयंति, तान्येव त्रीणि दर्शयति-तद्यथे' त्यादिना, गंधोदकेन-कुंकुमा-1 दिमिश्रितेन पुष्पोदकेन-जात्यादिमिश्रितेन शुद्धोदकेन-केवलोदकेन, मजयित्वा सर्वालङ्कारविभूषितौ कुर्वन्ति, मातृपुत्राविति शेषः, कृत्वा च भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च बाहाभिर्गृहन्ति गृहीत्वा च यत्रैवोत्तराह|| कदलीगृहं यत्रैव च चतुःशालकं यत्रैव च सिंहासनं तत्रैव उपागच्छन्ति उपागत्य च भगवन्तं तीर्थकर तीर्थकरमातरं ४ च सिंहासने निषादयन्ति निषाद्य च आभियोगान् देवान् शब्दयन्ति शब्दयित्वा च एवमवादिषुः-क्षिप्रमेव भो 8 देवानुप्रियाः! क्षुद्रहिमवतो वर्षधरपर्वताद् गोशीर्षचन्दनकाष्ठानि संहरत-समानयत, ततस्ते आभियोगा देवास्ताभी रुच-18 | कमध्यवास्तव्याभिश्चतसृभिर्दिकुमारीमहत्तरिकाभिरेवं-अनन्तरोक्तमुक्ता:-आज्ञप्ताः सन्तः हृष्टतुष्ट इत्यादि यावद् विन18| येन वचनं प्रतीच्छन्ति-अङ्गीकुर्वन्ति प्रतीष्य च क्षिप्रमेव क्षुद्रहिमवतो वर्षधरपर्वतात् सरसानि गोशीर्षचन्दनकाष्ठानि
Jain Education Intel
For Private & Personel Use Only
MOMainelibrary.org