________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ३९३॥
Jain Education Inter
चतस्रस्ता वसन्तीत्यर्थः, श्री अभयदेवसूरयस्तु षष्ठाङ्गवृत्तौ मल्यध्ययने 'मज्झिमरुअगवत्थबा' इत्यत्र रुचकद्वीपस्याभ्यन्तरार्द्धवासिन्य इत्याहुः, अत्र तत्त्वं बहुश्रुतगम्यं चतस्रो दिक्कुमारिका यावद् विहरन्ति तद्यथा - रूपा १ रूपासिका २ सुरूपा ३ रूपकावती ४, तथैव युष्माभिर्न भेतव्यमिति कृत्वा भगवतस्तीर्थकरस्य चतुरंगुलवजं नाभिनालं कल्पयन्ति | कल्पयित्वा च विदरकं गर्त्ता खनन्ति खनित्वा च विदरके कल्पितां तां नाभिं निधानयन्ति, निधानयित्वा च रलैश्च वत्रैश्च प्राकृतत्वाद् विभक्तिव्यत्ययः पूरयन्ति पूरयित्वा च हरितालिकाभिः - दूर्वाभिः पीठं बनन्ति, कोऽर्थः १ - पीठं बध्वा तदुपरि हरितालिका वपन्तीत्यर्थः, वितरकखननादिकं च सर्वं भगवदवयवस्याशातनानिवृत्त्यर्थ, पीठं बध्वा च त्रिदिशि पश्चिमावर्जदिकत्रये त्रीणि कदलीगृहाणि विकुर्वन्ति, ततस्तेषां कदलीगृहाणां बहुमध्यदेशभागे त्रीणि चतुःशा|लकानि-भवनविशेषान् विकुर्वन्ति, ततस्तेषा चतुःशालकानां बहुमध्यदेशभागे त्रीणि सिंहासनानि विकुर्वन्ति तेषां सिंहासनानामयमेतादृशो वर्णव्यासः प्रज्ञप्तः, सिंहासनानां सर्वो वर्णकः पूर्ववद् भणितव्यः । सम्प्रति सिंहासनविकुर्वणानन्तरीयकृत्यमाह --- 'तए णं ताओ रुअगमज्झवत्थब्बाओ चत्तारि दिसाकुमारीओ' इत्यादि, ततस्ता रुचकमध्यवास्तव्याः चतस्रो दिक्कुमारीमहत्तरिका यत्रैव भगवांस्तीर्थकरस्तीर्थकर माता च तत्रैवोपागच्छन्ति उपागत्य च भगवन्तं | तीर्थकरं करतलसम्पुटेन तीर्थकरमातरं च वाहाभिर्गृह्णन्ति गृहीत्वा च यत्रैव कदलीगृहं यत्रैव चतुःशालकं यत्रैव च सिंहासनं तत्रैवोपागच्छन्ति, उपागत्य च भगवन्तं तीर्थकरं तीर्थकरमातरं च सिंहासने निषादयन्ति - उपवेशयन्ति निषाद्य
For Private & Personal Use Only
५ वक्षस्कारे रुचकवा - सिकुमायुत्सवः सू. ११४
॥३९३॥
www.jainelibrary.org