________________
नवरं पश्चिमरुचकवास्तव्या:-पश्चिमदिग्भागवतिरुचकवासिन्य इति, नामान्यासां पद्येनाह-इलादेवी १ सुरादेवी २९ पृथिवी ३ पद्मावती ४ एकनासा ५ नवमिका ६ भद्रा ७ सीता ८ चः समुच्चये, अष्टमी चेति, कूटव्यवस्था तथैव, पश्चिमरुचकागतत्वान्जिनजनन्योः पश्चिमदिग्भागे तालवृन्तं-व्यजनं तहस्तगतास्तिष्ठन्तीति, उदीच्या अप्येवमेवेति तत्सूत्रमाह-'तेणं कालेण'मित्यादि, व्यक्तं, नवरमुत्तररुचकवास्तव्या-उत्तरदिग्भागवतिरुचकवासिन्य इति, नामान्यासां पद्येनाह-अलंबुसा १ मिश्रकेसी २ पुण्डरीका ३ चः प्राग्वत् वारुणी४ हासा ५ सर्वप्रभा ६ चैवेति प्राग्वत् |श्रीः ७ ही ८ श्चोत्तरतः, कूटव्यवस्था तथैव, उत्तररुचकागतत्वाजिनजनन्योरुत्तरदिग्भागे चामरहस्तगता आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति । अथ विदिगुरुचकवासिनीनामागमनावसरः-'तेणं कालेण'मित्यादि, व्यक्तं, नवरं विदिग्रुचकवास्तव्यास्तस्यैव रुचकपर्वतस्य शिरसि चतुर्थे सहस्र चतसृषु विदिक्षु एकैकं कूटं तत्र वासिन्यश्चतस्रो विदिक्कुमार्यों यावद् विहरन्ति, इमाश्च स्थानाने विद्युत्कुमारीमहत्तरिका इत्युक्ता इति, एतासां चैशान्यादिक्रमेण नामान्येवंचित्रा१चः समुच्चये चित्रकनका २ शतेरा ३ सौदामिनी४ तथैव यावन्न भेतव्यमितिकृत्वा, विदिगागतत्वात् भगवतस्ती
र्थकरस्य तीर्थकरमातुश्च चतसृषु विदिक्षु दीपिकाहस्तगता आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । अथ मध्यरुचकवासिन्य 18 आगमितव्याः-'तेणं कालेण'मित्यादि, तस्मिन्काले तस्मिन् समये मध्यरुचकवास्तव्या-मध्यभागवर्तिरुचकवासिन्यः, ४ कोऽर्थः-चतुर्विशत्यधिकचतुःसहस्रप्रमाणे रुचकशिरोविस्तारे द्वितीयसहने चतुर्दिग्वतिषु चतुर्यु कूटेषु पूर्वादिक्रमेण
Jan Education Intel
For Private
Personal Use Only
Jane brary.org