SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥५१४॥ अमावास्या चैत्री - चित्रानक्षयुक्ता भवति, अश्विन्या आरभ्य पूर्व चित्रानक्षत्रस्य पञ्चदशत्वात् एतच्च व्यवहारनय| मधिकृत्योत्तमवसेयं निश्चयत एकस्यामप्यश्वयुग्मांसभा विन्याममावास्यायां चित्रानक्षत्रासम्भवात् एतच्च प्रागेव दर्शितं, | यदा च चैत्री - चित्रानक्षोपेता पौर्णमासी भवति तदा पाश्चात्या अमावास्या आश्विनी - अश्विनीनक्षत्रयुक्ता भवति, एतदपि व्यवहारतः निश्चयत एकस्यामपि चैत्रमासभाविन्याममावास्यायां अश्विनीनक्षत्रस्यासम्भवात् एतदपि सूत्र| माश्विनचैत्रमासावधिकृत्य प्रवृत्तं यदा च कार्त्तिकी - कृत्तिकानक्षत्रयुक्ता पौर्णमासी भवति तदा वैशाखी - विशाखानक्षत्रयुक्ता अमावास्या भवति, कृत्तिकातोऽर्वाक् विशाखायाः पञ्चदशत्वात्, यदा वैशाखी - विशाखानक्षत्रयुक्ता पौर्णमासी भवति तदा ततोऽनन्तरा पाश्चात्याऽमावास्या कार्त्तिकी - कृत्तिकानक्षत्रोपेता भवति, विशाखातः पूर्वं कृत्तिकायाः चतुर्दशत्वात् एतच्च कार्त्तिकवैशाखमा सावधिकृत्योक्तं, यदा च मार्गशीर्षी मृगशिरोयुक्ता पौर्णमासी भवति तदा ज्येष्ठामूली - ज्येष्ठामूलनक्षत्रोपेता अमावास्या, यदा ज्येष्ठामूली पौर्णमासी तदा मार्गशीर्षी अमावास्या, एतच्च मार्ग - | शीर्षज्येष्ठमासावधिकृत्य भावनीयं, यदा पौषी-पुष्यनक्षत्रयुक्ता पौर्णमासी तदा आषाढी- पूर्वाषाढा नक्षत्रयुक्ता अमा| वास्या भवति, यदा पूर्वाषाढा नक्षत्रयुक्ता पौर्णमासी भवति तदा पुष्यनक्षत्रयुक्ता अमावास्या भवति एतच्च पौषाषाढमासावधिकृत्योक्तं, उक्तानि मासार्द्धमासपरिसमापकानि नक्षत्राणि । सम्प्रति स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया मास परिसमापकं नक्षत्रवृन्दमाह, तत्र प्रथमतो वर्षाकालाहोरात्र परिसमापकनक्षत्रसूत्रम् - Jain Education International For Private & Personal Use Only ७वक्षस्कारे कुलादिपूर्णिमामा वास्याः स्. १६१ ॥५१४॥ www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy