________________
भवति तदा तस्या अर्वाक्तनी अमावास्या माघी - मघानक्षत्रयुक्ता भवति यदा तु माघी - मघानक्षत्रयुक्ता पूर्णिमा भवति तदा पाश्चात्या अमावास्या श्राविष्ठी - श्रविष्ठायुक्ता भवतीति, काक्वा प्रश्नः, भगवानाह - हन्तेति भवति, तत्र गौतम ! यदा श्राविष्ठीत्यादि तदेव वक्तव्यं, प्रश्नेन समानोत्तरत्वात्, अयमर्थः - इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्ण| मासी भवति तत आरभ्य अर्वाक्तने पंचदशे चतुर्दशे वा नक्षत्रे नियमतोऽमावास्या, ततो यदा श्राविष्ठी - श्रविष्ठानक्षत्रयुक्ता पौर्णमासी भवति तदा अर्वाक्तनी अमावास्या माघी - मघानक्षत्रयुक्ता भवति, श्रविष्ठानक्षत्रादारभ्य मघा - | नक्षत्रस्य पूर्वं चतुर्दशत्वात्, अत्र सूर्यप्रज्ञप्तिचन्द्रप्रज्ञप्तिवृत्त्योस्तु मघानक्षत्रादारभ्य श्रविष्ठानक्षत्रस्य पश्चदशत्वाद पाठस्तेनात्र विचार्य, एतच्च श्रावणमासमधिकृत्य भावनीयं, यदा भदन्त ! माघी - मघानक्षत्रयुक्ता पूर्णिमा भवति तदा | श्राविष्ठी - श्रविष्ठानक्षत्रयुक्ता पाश्चात्या अमावास्या भवति, मघानक्षत्रादारभ्य पूर्व श्रविष्ठानक्षत्रस्य पंचदशत्वात् इदं च माघमासमधिकृत्य भावनीयं, यदा भदन्त ! प्रौष्ठपदी - उत्तरभद्रपदायुक्ता पौर्णमासी भवति तदा पाश्चात्या अमावास्या उत्तरफल्गुनी नक्षत्रयुक्ता भवति, उत्तरभद्रपदात् आरभ्य पूर्वमुत्तरफल्गुनीनक्षत्रस्य पञ्चदशत्वात् एतच्च भाद्र| पदमासमधिकृत्यावसेयं, यदा चोत्तरफाल्गुनीनक्षत्रयुक्ता पौर्णमासी भवति तदा अमावास्या प्रौष्ठपदी - उत्तरभद्रपदो| पेता भवति, उत्तरफल्गुनीमारभ्य पूर्वमुत्तरभद्रपदानक्षत्रस्य चतुर्दशत्वात् इदं च फाल्गुनमासमधिकृत्योकं, एवमेतेनाभिलापेन इमाः पूर्णिमा अमावास्याश्च नेतव्याः, यदा आश्विनी अश्विनीनक्षत्रोपेता भवति तदा पाश्चात्यानन्तरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org