________________
श्रीजम्बू
पुष्योऽश्लेषा च, अस्यां पञ्चानामपि युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात्, करणं चात्र प्रागुक्तं, तथा | वक्षस्कारे द्वीपशा- प्रौष्ठपदी भदन्त ! अमावास्यां कति नक्षत्राणि युञ्जन्ति ?, गौतम! द्वे नक्षत्रे युक्तः, तद्यथा-पूर्वफल्गुनी उत्तर- कुलादिएन्तिचन्द्री-18 |फल्गुनी चशब्दान्मघा ग्राह्या, अस्यास्तु भाद्रपदपूर्णिमावर्तिशतभिषक्तो व्यवहारतोऽपि करणरीत्या निश्चयतश्चार्वा- | र्णिमामाया वृत्तिः ग्गणने पंचदशत्वात् , आसां पंचानामपि युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनाच, करणं च पूर्ववत्,
वास्थाः मू.
१६१ ॥५१२॥
तथा आश्वयुजीममावास्यां कति नक्षत्राणि युञ्जन्ति ?, गौतम! द्वे नक्षत्रे युक्तः, तद्यथा-हस्तश्चित्रा च, इदमपि व्यवहारतः निश्चयतस्तु आश्वयुजीममावास्यां त्रीणि नक्षत्राणि समापयन्ति, तद्यथा-उत्तरफल्गुनी हस्तश्चित्रा च, यच्च पूर्वमाश्वयुज्यां पूर्णिमायामुत्तरभद्रपदा प्रागुक्तहेतोर्न विवक्षिता परं निश्चयतः सा आयातीति तस्याः पंचदशत्वादुत्तरफल्गुन्यत्र गृहीता, आसां च पंचानां युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात् भावना प्राग्वत् , तथा कार्तिकी अमावास्यां द्वे नक्षत्रे युक्तः, तद्यथा-स्वातिविशाखा च, एतदपि व्यवहारतः निश्चयतस्तु त्रीणि स्वातिर्वि-18 शाखा चित्रा च, अस्यामपि पूर्णिमायां अश्विन्यनुरोधेन चित्रोक्का, आसां पंचानामपि युगभाविनीनां नक्षत्रत्रयाणां 8 मध्येऽन्यतरेण समापनादिति, तथा मार्गशीर्षी त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-अनुराधा ज्येष्ठा मूलश्च, एतदपि
॥५१२॥ व्यवहारतो निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि अमावास्या परिसमापयन्ति, तद्यथा-विशाखा अनुराधा ज्येष्ठा च आसां पंचानां युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात्, तथा पौषीममावास्यां द्वे नक्षत्रे युंक्त:-पूर्वा
JainEducation into
For Private
Personal use only
www.jainelibrary.org