________________
शपाढा उत्तराषाढा च, एतदपि व्यवहारत उक्तं निश्चयतः पुनस्त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-मूलं पूर्वाषाढा | उत्तराषाढा च, आसां युगमध्येऽधिकमाससम्भवेन षण्णामपीत्यादि पूर्ववत्, तथा माघीममावास्यां त्रीणि-अभिजित् श्रव| णो धनिष्ठा, एतत्पूर्णिमावर्तिभ्यामश्लेषामघाभ्यामभिजितः षोडशत्वेन व्यवहारातीतत्वेऽपि श्रवणसम्बद्धत्वात् पंचदशत्वं समाधेयम् , एतदपि व्यवहारतः निश्चयतः पुनस्त्रीणि उत्तराषाढा अभिजित् श्रवणश्च, आसां पंचानामपीत्यादि पूर्ववत्, तथा फल्गुनीं त्रीणि तद्यथा-शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा, एतदपि व्यवहारतः निश्चयतस्त्रीणि तद्यथा-धनिष्ठा | शतभिषक् पूर्वभद्रपदा च, आसां पंचानामपीत्यादि तथैव, तथा चैत्री द्वे नक्षत्रे-रेवती आश्विनी च, एतदपि व्यवहारतः निश्चयतस्तु त्रीणि तद्यथा-पूर्वभद्रपदा उत्तरभद्रपदा रेवती च, आसामपीत्यादि तथैव, तथा (वैशाखी द्वे नक्षत्रेभरणी कृत्तिका च, एतदपि व्यवहारतः निश्चयतस्तु त्रीणि तद्यथा-रेवती अश्विनी भरणी च, आसामपीत्यादि तथैव) ज्येष्ठामूली द्वे-रोहिणी मृगशिरश्च, एतदपि व्यवहारतः निश्चयतस्तु इमे द्वे नक्षत्रे-रोहिणी कृत्तिका च, आसामपीत्यादि पूर्ववत्, तथा आषाढी त्रीणि नक्षत्राणि-आर्द्रा पुनर्वसू पुष्यः, एतदपि व्यवहारतः परमार्थतस्तु इमानि त्रीणि नक्षत्राणि-18 | मृगशिरः आर्द्रा पुनर्वसू च, आसां युगान्तेऽधिकमाससम्भवेन षण्णामपि [पञ्चानां] तथैवेति, अत्र सर्वत्र नक्षत्रगणनामध्ये यत्राभिजिदन्तर्भवति तत्र न गण्यं, स्तोककालत्वात् , यत उक्तं समवायाङ्गे-"जम्बुद्दीवे २ अभिईवजेहिं सत्तावीसाए णक्खत्तेहिं संववहारो वट्टइ'त्ति । अथामावास्यासु कुलादियोजनाप्रश्नमाह-'साविहिण्ण'मित्यादि, श्राविष्ठी
Jain Education
a
l
For Private & Personel Use Only
hw.jainelibrary.org