SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Jain Educatio युञ्जत् भरणीनक्षत्रं युनक्ति कार्त्तिकीमित्याद्युपसंहारवाक्यं प्राग्वत् इति, मार्गशीष भदन्त ! पौर्णमासीं किं कुलं तदे| वेति द्वे युक्तः, कोऽर्थः ? - कुलमुपकुलं वा युनक्ति न भवति कुलोपकुलं, तत्र कुलं युञ्जत् मृगशिरो नक्षत्रं युनक्ति, उपकुलं युञ्जत् रोहिणी, मार्गशीर्षी पौर्णमासीमित्याद्युपसंहारवाक्यं प्राग्वत्, अथ लाघवार्थमतिदेशमाह - ' एवं सेसि | आओ' इत्यादि, एवं शेषिका अपि - पौष्याद्यास्तावद्वक्तव्याः यावदाषाढीपूर्णिमा इत्यर्थः, पौषीं ज्येष्ठामूली च पूर्णिमां कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति, शेषिकायां - माध्यादीनां कुलं वा युनक्ति उपकुलं वा युनक्ति, कुलोपकुलं न भण्यते, तदभावादिति । अथामावास्याः - 'साविट्टिणं' इत्यादि, श्राविष्ठीं- श्रावणमास भाविनीं अमावास्यां कति नक्षत्राणि युञ्जन्ति ? - यथायोगं चन्द्रेण सह संयुज्य श्राविष्ठीं अमावास्यां परिसमापयन्ति ?, भगवानाह - गौतम ! द्वे नक्षत्रे युंक्तः, तद्यथा - अश्लेषा मघा, इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्णमासी भवति तत आरभ्यार्वाक्तने पञ्चदशे चतुर्दशे वा नक्षत्रे अमावास्या भवति, यस्मिंश्च नक्षत्रे अमावास्या तत आरभ्य परतः पञ्चदशे चतुदेशे वा नक्षत्रे पौर्णमासी, तत्र श्राविष्ठी पौर्णमासी किल श्रवणे धनिष्ठायां चोक्ता ततोऽमावास्यायामप्यस्यां अश्लेषा मघा चोक्ता, लोके च तिथिगणितानुसारतो गतायामध्यमावास्यायां वर्त्तमानायामपि प्रतिपदि यस्मिन्नहोरात्रे प्रथमतो Sमावास्याऽभूत् ततः सकलोऽप्यहोरात्रोऽमावास्येति व्यवह्रियते, ततो मघानक्षत्रमप्येवं व्यवहारतोऽमावास्यायां प्राप्यते इति न कश्चिद्विरोधः, परमार्थतः पुनरिमाममावास्यां इमानि त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा - पुनर्वसू ational For Private & Personal Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy