________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया वृत्तिः 1५१०॥
७वक्षस्कारे कुलादिपूर्णिमामावास्याः सू. १६१
भद्रपदा, आसां पश्चानामपि युगभाविनीनामुक्तनक्षत्राणां मध्ये अन्यतरेण परिसमापनात्, आश्वयुजी भदन्त ! पौर्णमासी कति नक्षत्राणि योजयन्ति?, गौतम! हे योजयतः-रेवती अश्विनी च, इहोत्तरभद्रपदानक्षत्रमपि कांचिदाश्वयुजी पौर्णमासी परिसमापयति परं तत्प्रौष्ठपदीमपि, लोके च प्रौष्ठपद्यामेव तस्य प्राधान्यं तन्नाम्ना तस्याः अभिधानाद् अतस्तदिह न विवक्षितमित्यदोषः, अतो द्वे समापयत इत्युक्तं, आसां बह्वीनां युगभाविनीनामुक्तनक्षत्रयोर्मध्येsन्यतरेण परिसमापनात् , तथा कार्तिकी पौर्णमासी द्वे नक्षत्रे, तद्यथा-भरणी कृत्तिका च, इहाप्यश्विनीनक्षत्रं कांचित् कार्तिकी पौर्णमासी परिसमायति परं तदाश्वयुज्यां पौर्णमास्यां प्रधानमितीह न विवक्षितमित्यदोषः, अतोऽत्रापि द्वे इत्युक्तं, आसां बह्वीनां युगभाविनीनां उक्तनक्षत्रयोर्मध्येऽन्यतरेण परिसमापनात् , तथा मार्गशीर्षी पौर्णमासी द्वे नक्षत्रे, तद्यथा-रोहिणी मृगशिरश्च, आसां पंचानामपि युगभाविनीनां उत्कनक्षत्रयोर्मध्येऽन्यतरेण परिसमापनात् , तथा पौषी पौर्णमासी त्रीणि नक्षत्राणि, तद्यथा-आर्द्रा पुनर्वसुः पुष्यश्च, आसां युगमध्येऽधिकमाससम्भवेन षण्णामपि युगभाविनीनां उक्तनक्षत्राणां मध्येऽन्यतरेण परिसमापनात्, तथा माघी पौर्णमासी द्वे नक्षत्रे, तद्यथा-अश्लेशा मघा चशब्दात् पूर्वफ|ल्गुनीपुष्यो ग्राह्यौ, तेनासां युगभाविनीनां पञ्चानामपि मध्ये काश्चिदश्लेषा काञ्चिन्मघा काश्चित् पूर्वफल्गुनी कांचित्पुष्यश्च परिसमापयति, तथा फाल्गुनी पौर्णमासी द्वे नक्षत्रे, तद्यथा-पूर्वफल्गुनी उत्तर फल्गुनी च, आसां पंचानामपि युगभाविनीनां उक्तयोनक्षत्रयोर्मध्येऽन्यतरेण समापनात्, तथा चैत्री पौर्णमासी द्वे नक्षत्रे, तद्यथा-हस्तः चित्रा च, आसां
॥५१०॥
secccesecestoer
Jain Education Intel
For Private & Personal Use Only
anbraryong