________________
पंचानामपि युगभाविनीनामुक्तयोर्नक्षत्रयोर्मध्येऽन्यतरेण समापनात्, तथा वैशाखी द्वे, तद्यथा-स्वातिविशाखा च. शब्दादनुराधा, इदं हि अनुराधानक्षत्रं विशाखातः परं, विशाखा चास्यां पूर्णिमास्यां प्रधाना ततः परस्यामेव पौर्ण-18 मास्यां तत्साक्षादुपात्तं नेहेति अतो द्वे इत्युक्तं, आसां बहीना युगभाविनीनां उक्तनक्षत्रयोर्मध्येऽन्यतरेण समापनात् , 18 तथा ज्येष्ठामूली पौर्णमासी त्रीणि, तद्यथा-अनुराधा ज्येष्ठा मूलं च, आसां पंचानामपि युगभाविनीनां उक्तनक्षत्राणां 8 |मध्येऽन्यतरेण समापनात् , तथा आषाढी पौर्णमासी द्वे, तद्यथा-पूर्वाषाढा उत्तराषाढा च, आसां युगान्ते अधिकमा| ससम्भवेन षण्णामपि युगभाविनीनां उक्तनक्षयोर्मध्येऽन्यतरेण समापनात् । सम्प्रति कुलद्वारप्रतिपादनेन स्वतः सिद्धा
मपि कुलादियोजनां मन्दमतिशिष्यबोधनाय प्रश्नयनाह–साविहिण्ण'मित्यादि, श्राविष्ठी भदन्त ! किं कुलं युनक्ति ! | उपकुलं युनक्ति कुलोपकुलं युनक्ति?, भगवानाह-गौतम! कुलं वा युनक्ति वाशब्दः समुच्चये ततः कुलमपि युनती| त्यर्थः, एवमुपकुलमपि कुलोपकुलमपि, तत्र कुलं युञ्जत् धनिष्ठानक्षत्रं युनक्ति, तस्यैव कुल (तया) प्रसिद्धस्य सतः श्राविष्ट्यां । पौर्णमास्यां भावात् , उपकुलं युञ्जत् श्रवणनक्षत्रं युनक्ति, कुलोपकुलं युञ्जत् अभिजिन्नक्षत्रं युनक्ति, तद्धि तृतीयायां । |श्राविष्ठयां पूर्णिमास्यां द्वादशमुहूर्तेषु किञ्चित्समधिकेषु शेषेषु चन्द्रेण सह योगमुपैति, ततः श्रवणसहचरत्वात् स्वयमपि
तस्याः पौर्णमास्याः पर्यन्तवर्तित्वात् तदपि तां परिसमापयति इति विवक्षितत्वाधुनक्तीत्युक्तं, सम्प्रत्युपसंहारमाह18| यत एवं त्रिभिरपि कुलादिभिः श्राविष्ठयाः पौर्णमास्या योजनाऽस्ति ततःश्राविष्ठी पौर्णमासी कुलं वा युनक्ति उपकुलं
Stotkesekseeeeeeeeeeee
श्रीजम्न-८६
For Private & Personel Use Only
Vhw.jainelibrary.org