SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ गम्येषु च परिसमापयतीति सूक्ष्मेक्षिकादर्शनार्थ त्विदं प्रवचनप्रसिद्ध करणं भावनीयं-'नाउमिह अमावासं जइ इच्छसि | कमि होइ रिक्खंमि ? । अवहारं ठावेज्जा तत्तिअरूवेहिं संगुणिए ॥१॥' याममावास्यामिह युगे ज्ञातुमिच्छसि यथा कस्मिन्नक्षत्रे वर्तमाना परिसमाप्ता भवतीति, यावद्रूपैर्यावत्यो अमावस्या अतिक्रान्तास्तावत्या सङ्ख्यया इत्यर्थः, वक्ष्यमाणस्वरूपमवधार्यते-प्रथमतया स्थाप्यते इत्यवधार्यो-ध्रुवराशिः तमवधार्यराशिं पट्टिकादौ स्थापयित्वा सङ्गणयेत् , अथ किंप्रमाणोऽसावधार्यराशिरिति तत्प्रमाणनिरूपणार्थमाह-'छावट्ठी य मुहुत्ता बिसद्विभागा य पंच पडिपुण्णा । बासट्ठिभागसत्तट्टिगो अ एक्को हवइ भागो ॥२॥' पक्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च परिपूर्णा द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टितमो भाग इत्येतावत्प्रमाणोऽवधार्यराशिः, कथमेतावत्प्रमाणस्योत्पत्तिरिति चेत्, उच्यते, इह यदि चतुर्विंशत्यधिकेत पर्वशतेन पञ्च सूर्यनक्षत्रपर्यायाः लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ?, राशित्रयस्थापना-१२४ । ५।२ अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशिः पञ्चकलक्षणो गुण्यते MS | जाता दश तेषां च चतुर्विशत्यधिकेन शतेन भागहरणं, तत्र छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना जात उपरितनश्छेद्यो | राशिः पञ्चकरूपोऽधस्तनो द्वापष्टिरूपः लब्धाः पञ्च द्वापष्टिभागाः, एतेन नक्षत्राणि कर्तव्यानीति नक्षत्रकरणार्थमष्टादशभिस्त्रिंशदधिकैः शतैः सप्तषष्टिभागरूपैः गुण्यन्ते जातानि एकनवतिः शतानि पञ्चाशदधिकानि ९१५०, छेदरा-13 शिरपि द्वाषष्टिप्रमाणः सप्तषश्या गुण्यते जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि ४१५४, उपरितनराशिर्मु eeeeeeeeeeeeeeeeeee Jain Education International For Private Personal Use Only ww.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy