SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ | सम्यग् वर्षति-करोति मेघ इति तमाहुः-संवत्सरं कर्माख्यं । अथ सौरः-'पुढवि'इत्यादि, पृथिव्या उदकस्य च तथा पुष्पाणां फलानां च रसमादित्यः-आदित्यसंवत्सरो ददाति, तथा अल्पेनापि-स्तोकेनापि वर्षेण-वृष्ट्या शस्यं निष्पद्यतेअन्तर्भूतण्यर्थत्वात् शस्यं निष्पादयति, किमुक्तं भवति ?-यस्मिन् संवत्सरे पृथिवी तथाविधोदकसम्पर्कादतीव सरसा भवति उदकमपि परिणामसुन्दररसोपेतं परिणमति पुष्पानां च-मधूकादिसम्बन्धिनां फलानां च-आम्रफलादीनां ४ रसः प्रचुरो भवति, स्तोकेनापि वर्षेण धान्यं सर्वत्र सम्यक् निष्पद्यते तमादित्यसंवत्सरं पूर्वर्षय उपदिशन्ति । अथाभि-10 वर्द्धित:-'आइच'इत्यादि, यस्मिन् संवत्सरे क्षणलवदिवसा ऋतव आदित्यतेजसा कृत्वा अतीवतप्ताः परिणमन्ति, यश्च सर्वाण्यपि निम्नस्थानानि स्थलानि च जलेन पूरयति तं संवत्सरं जानीहि यथा तं संवत्सरमभिवर्द्धितमाहुः पूर्वर्षय इति । सम्प्रति शनैश्चरसंवत्सरप्रश्नमाह-'सणिच्छर'इत्यादि, शनैश्चरसंवत्सरो भदन्त! कतिविधः प्रज्ञप्तः, गौतम! अष्टाविंशतिविधः प्रज्ञप्तः, तद्यथा-अभिजिच्छनैश्चरसंवत्सरः श्रवणशनैश्चरसंवत्सरः धनिष्ठाशनैश्चरसंवत्सरः शतभिषक्शनैश्चरसंवत्सरः पूर्वभद्रपदाश०सं० उत्तरभद्रपदाशनैश्चरसंवत्सरः रेवतीशनैश्चरसं० अश्विनीशनैश्चरसंवत्सरः भरणीशनैश्चरसंवत्सरः कृत्तिकाशनैश्चरसंवत्सरः रोहिणीश०सं० यावत्पदात् मृगशिरःशनैश्चरसंवत्सर इत्यादि ग्राह्य, अन्ते चोत्तराषाढाशनैश्चरसंवत्सरः, तत्र यस्मिन् संवत्सरे अभिजिता नक्षत्रेण सह शनैश्चरो योगमुपादत्ते सोऽभिजिच्छनैश्वरसंवत्सरः श्रवणेन सह यस्मिन् संवत्सरे योगमुपादत्ते स श्रवणशनैश्चरसंवत्सरः, एवं सर्वत्र भावनीयं, अथवा शनै 90000000000000000000000000000 Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy