________________
लोए । सेसाउ संसयाए ववहारे दुक्करा घेत्तुं ॥१॥" अत्र व्याख्या-आदित्यादिसंवत्सरमासानां मध्ये कर्मसंवत्सरसम्बन्धी मासो निरंशतया पूर्णत्रिंशदहोरात्रप्रमाणतया लोकव्यवहारकारकः स्यात् , शेषास्तु सूर्यादयो व्यवहारे ग्रहीतुं दुष्कराः सांशतया च व्यवहारपथमवतरन्तीति, निरंशता चैव-पष्टिः पलानि घटिका ते च द्वे मुहूर्तः ते च त्रिंशदहोरात्रः ते च पञ्चदश पक्षः तौ द्वौ मासः ते च द्वादश संवत्सर इति, शास्त्रवेदिभिस्तु सर्वेऽपि मासाः स्वस्वकार्येषु नियोजिताः, तथाहि-अत्र नक्षत्रमासप्रयोजनं सम्प्रदायगम्यं । "वैशाखे श्रावणे मार्गे, पौषे फाल्गुन एव हि। कुर्वीत वास्तुप्रारम्भ, न तु शेषेषु सप्तसु ॥१॥" इत्यादौ चन्द्रमासस्य प्रयोजनं, ऋतुमासस्य तु पूर्वमुक्त, 'जीवे सिंहस्थे धन्विमीनस्थितेऽर्के, विष्णौ निद्राणे चाधिमासे न लग्नं' इत्यादौ तु सूर्यमासाभिवर्द्धितमासयोरिति, पूर्व नक्षत्रसंवत्सरादयः स्वरूपतो निरूपिताः अत्र तु दिनमानानयनादिप्रमाणकरणेन विशेषेण निरूपिता इति न पौनरुक्त्यं विभाव्यम् , निशीथभाष्यकाराशयेन 'नक्षत्रचन्द्रर्तुसूर्याभिवर्द्धितरूपकं मासपञ्चकं तद्वादशगुणः संवत्सर' इति संवत्सरपचकमेव युक्तिमत् , अन्यथा उद्देशाधिकारे नक्षत्रसंवत्सरोद्देशकरणं युगसंवत्सराधिकारे चन्द्राभिवतियोरुदेशकरणं पुनः प्रमाणसंवत्सराधिकारे तेषामेव प्रमाणकरणमित्यादिकं गुरवे गौरवाय भवति, यत्तु स्थानाङ्गचन्द्रप्रज्ञप्त्यादावत्र चोपाङ्गे इत्थं संवत्सरपञ्चकवर्णनं तद् बहुश्रुतगम्यम् , अथ लक्षणसंवत्सरप्रश्नमाह-'लक्खणसंवच्छरे णं भन्ते !' इत्यादि, लक्षणसंवत्सरो भदन्त ! कतिविधः प्रज्ञप्तः, गौतम! पंचविधः प्रज्ञप्तः, नक्षत्रादिभेदात्, तद्यथा-समकं
।
Jain Education Intemanand
For Private & Personel Use Only
www.jainelibrary.org