________________
अहोरात्रराशिस्त्रिंशदधिकाष्टादशशतप्रमाणो भवति, कथमेतदवसीयते इति चेत् , उच्यते, इह सूर्यस्य दक्षिणमुत्तर वाऽयनं व्यशीत्यधिकदिनशतात्मकं युगे च पंच दक्षिणायनानि पंच चोत्तरायणानि इति सर्वसङ्ख्यया दशायनानि, ततरूयशीत्यधिकं दिनशतं दशकेन गुण्यते इत्यागच्छति यथोक्को दिनराशिः, एवंप्रमाणं दिनराशिं स्थापयित्वा नक्षत्रचन्द्रऋत्वादिमासानां दिनानयनार्थ यथाक्रमं सप्तषष्टयेकषष्टिषष्टिद्वाषष्टिलक्षणैर्भागहारैर्भागं हरेत् , ततो यथोक्तं नक्षत्रादिमासचतुष्कगतदिनपरिमाणमागच्छति, तथाहि-युगदिनराशि १८३० रूपः, अस्य सप्तपष्टियुगे मासा इति सप्तषष्टया भागो हियते, यल्लब्धं तन्नक्षत्रमासमानं, तथाऽस्यैव युगदिनराशेः१८३० रूपख एकषष्टियुगे ऋतुमासा इति एकषष्टया |भागहरणे लब्धं ऋतुमासमान, तथा युगे सूर्यमासाः षष्टिरिति ध्रुवराशेः १८३० रूपस्य षष्टया भागहारे यल्लब्धं तत्सूर्यमासमानं, तथाऽभिवर्द्धिते वर्षे तृतीये पंचमे वा त्रयोदश चन्द्रमासा भवन्ति तद्वर्ष द्वादशभागीक्रियते तत एकैको भागोऽभिवर्द्धितमास इत्युच्यते, इह किलाभिवर्द्धितसंवत्सरस्य त्रयोदशचन्द्रमासमानस्य दिनप्रमाणं ज्यशीत्यधिकानि |त्रीणि शतानि चतुश्चत्वारिंशच द्वापष्टिभागाः, कथमिति चेत्, उच्यते-चन्द्रमासमानं दिन २९ ३३ एतद्रूपं त्रयोदIS शभिर्गुण्यते जातानि सप्तसप्तत्युत्तराणि त्रीणि शतानि दिनानां, षोडशोत्तराणि चत्वारि शतानि चांशानां ते च दिनस्य ।
द्वापष्टिभागास्ततो दिनानयनार्थ द्वाषष्टया भागो ह्रियते, लब्धानि षडू दिनानि, तानि च पूर्वोक्तदिनेषु मील्यन्ते जातानि 18 त्रीणि शतानि त्र्यशीत्यधिकानि दिनानां चतुश्चत्वारिंशच्च द्वाषष्टिभागाः, ततो वर्षे द्वादश मासा (इति मासा) नयनाय |
eeeeeeeeeeeeeeee
26E
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org