SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ नाद् यदि सूर्यचारविशेषेण कालविशेषप्रतिपत्तिदक्षिणोत्तरयोराद्यसमये प्रागपरयोरुत्तरसमये तर्हि दक्षिणोत्तरप्रतिपत्तिसमये पूर्वकालस्यापर्यवसानं वाच्यं, पूर्वापरविदेहापेक्षयाऽस्त्येव तदिति चेत् सूर्ययोश्चीर्णचरणं अपरं वा सूर्यद्वयं वाच्यं, ॥ ययोश्चारविशेषाद्दक्षिणोत्तरप्रतिपत्तिसमयापेक्षयोत्तरसमये पूर्वापरयोः कालविशेषप्रतिपत्तिरित्यादिको भूयान् परवचनावकाश इत्यलं प्रसङ्गेन, 'पुवंगेणवित्ति पूर्वाङ्ग-चतुरशीतिवर्षलक्षप्रमाणं "पुणवि'त्ति पूर्व-पूर्वाङ्गमेव चतुरशीतिवर्षलक्षगुणितं, एवं चतुरशीतिवर्षलक्षगुणितमुत्तरोत्तरं स्थानं भवति, चतुर्णवत्यधिकं चाङ्कशतमन्तिमे स्थाने भवतीति, 'पढमा ओस्सप्पिणीति अवसपिण्याः प्रथमो विभागः प्रथमाऽवसर्पिणी, 'जया णं भन्ते! दाहिणद्धे पढमा ओसप्पिणी पडिवजइ तया णं उत्तरद्धेवि,' इत्यादि व्यक्तं, नवरं नैवास्त्यवसर्पिणी नैवास्त्युत्सर्पिणी, कुत इत्याह-अवस्थितः-सर्वथा एकस्वरूपस्तत्र कालः प्रज्ञप्तः हे श्रमण ! हे आयुष्मन् ! इति, अथ प्रस्तुताधिकारमुपसंहरन्नाह-'इच्चेसा | जम्बुद्दीवे'इत्यादि, इत्येषा-अनन्तरोक्तस्वरूपा जम्बूद्वीपप्रज्ञप्तिः-आद्यद्वीपस्य यथावस्थितस्वरूपनिरूपिका ग्रन्थपद्धतिस्तस्यामस्मिन्नुपाङ्गे इत्यर्थः, सूत्रे च विभक्तिव्यत्ययः प्राकृतत्वात् , सूर्यप्रज्ञप्ति:-सूर्याधिकारप्रतिबद्धा पदपद्धतिर्व| स्तूनां-मण्डलसङ्ख्यादीनां समास:-सूर्यप्रज्ञप्यादिमहाग्रन्थापेक्षया संक्षेपस्तेन समाप्ता भवति । अथ चन्द्रवक्तव्यप्रनमाह-'जम्बुद्दीवे ण'मित्यादि, जम्बूद्वीपे भदन्त! द्वीपे चन्द्रावुदीचीनप्राचीनदिग्भागे उद्गत्य प्राचीनदक्षिणदिग्भागे आगच्छतः इत्यादि यथा सूरवक्तव्यता तथा चन्द्रवक्तव्यता, यथा वाशब्दोऽत्र गम्यः पञ्चमशतस्य दशमे उद्दे Jain Education Intel For Private & Personel Use Only N ainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy