SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ||४८४ ॥ वज्जइ, जया णं पञ्चत्थिमेणं पढमा आवलिआ पडिवज्जइ, तया णं जम्बुद्दीवे २ मन्दरस्स पवयस्स उत्तरदाहिणेणं | अतरपच्छाकड समयंसि वासाणं पढमा आवलिआ पडिवण्णा भवइ ?, हंता ! गोअमेत्यादि, तदेवोच्चारणीयमित्यर्थः, एवं आनप्राणादिपदेष्वपि, आवलिकाद्यर्थस्तु प्राग्वत्, 'हेमंताणं'ति शीतकालचतुर्मासानां, 'गिम्हाणं'ति ग्रीष्माणां चतुर्मासानां, ' पढमे अयणे 'ति दक्षिणायनं श्रावणादित्वात् संवत्सरस्य 'जुएणवि'त्ति युगं पंचसंवत्सरमानं, अत्र च युगेन सहेत्यतिदेशकरणात् युगस्यापि दक्षिणोत्तरयोः पूर्वसमये प्रतिपत्तिः प्रागपरयोस्तु तदनन्तरे पुरोवर्तिनि समये प्रतिपत्तिः, ज्योतिष्करण्डे तु - 'सावणबहुलपडिवए बालवकरणे अभीइणक्खत्ते । सवत्थ पढमसमए जुगस्स आई विआणाहि ॥ १ ॥" इत्यस्या गाथाया व्याख्याने सर्वत्र भरते ऐरवते महाविदेहेषु च श्रावणमासे बहुलपक्षेकृष्णपक्षे प्रतिपदि तिथौ बालवकरणे अभिजिन्नक्षत्रे प्रथमसमये युगस्यादिं विजानीहीतीदं वाचनान्तरं ' ज्ञेयं, यतो ज्योतिष्करण्डसूत्रकर्ता आचार्यो वालभ्यः एष भगवत्यादिसूत्रादर्शस्तु माथुरवाचनानुगत इति न किञ्चिदनुचितं युक्त्यानुकूल्यं तु न युगपत्प्रतिपत्तिसमये सम्भावयामः, तथाहि-- 'सबै कालविसेसा सूरपमाणेण हुंति नायव्वा' इति वच १ मासपक्ष तिथिकरणादीनां सर्वेषामप्यनन्तरतया भवनात् तत्तत्क्षेत्र विवक्षया समयपरावृत्त्या मासादीनां भवनं सर्वत्र चोकेष्वेव मासादिषु युगादिरिति न कोऽपि वाचनान्तरताहेतुः, चन्द्रकर्मसंवत्सराणां प्रतिवर्ष समादिपर्यवसानते न स्तः किंतु युगाद्यन्तयोरेवेति वचनप्रयोजनं ज्ञायते ॥ Jain Education International For Private & Personal Use Only ७वक्षस्कारे सूर्यादेरी शान्यादा बुद्गमादिः सू. १५० ॥४८४ ॥ www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy