SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः ॥४८३॥ Jain Education |हूर्त्ता रात्रिर्भवति यावता भागेन दिनं हीयते तावता रात्रिर्वर्द्धते, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्येति, 'एवं एएणं कमेणं' ति | एवमित्युपसंहारे एतेनानन्तरोक्तेनोपायेन 'जया णं भंते! जम्बुद्दीवे दीवे दाहिणद्धे' इत्येतेनेत्यर्थः, 'ऊसारे अच्वं ति दिनमानं स्वीकार्य, तदेव दर्शयति- 'सत्तर से' त्यादि, तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादारभ्यै कत्रिंशत्तममण्डलार्जे यदा सूर्यस्तदा सप्तदशमुत्त दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्त्ता च रात्रिरिति, 'सत्तरसमुहुत्ताणंतरे' ति मुहूर्त्ते कषष्टिभागद्वयहीन सप्तदशमुहूर्त्त प्रमाणो दिवसोऽयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलार्द्ध भवति, एवमनन्तर - त्वमन्यत्राप्यूह्यं, 'सातिरेगतेरसमुहुत्ता राइ'त्ति मुहूत्र्त्तेकपष्टिभागद्वयेन सातिरेकत्वं, एवं सर्वत्र, 'सोलसमुहुत्ते दिवसेत्ति, द्वितीयादारभ्यैकषष्टितममण्डले षोडशमुहूर्त्ती दिवसो भवति, 'पण्णरसमुहुत्ते दिवसेति द्विनवतितममण्डलार्द्धे वर्त्तमाने सूर्ये 'चोदसमुहुत्ते दिवसे'त्ति द्वाविंशत्युत्तरशततमे मण्डले 'तेरसमुहुत्ते दिवसेत्ति सार्द्धद्विपञ्चाशदुत्तरशततमे मण्डले 'बारसमुहुत्ते दिवसे 'त्ति त्र्यशीत्यधिकशततमे मण्डले सर्वबाह्ये इत्यर्थः ! कालाधिकारादिदमाह - 'जया णं भन्ते ! | जम्बुद्दीवे २ दाहिणजे वासाण' मित्यादि, 'वासाण' मिति चतुर्मासप्रमाणवर्षाकालस्य सम्बन्धी प्रथमः- आद्यः समयःक्षणः प्रतिपद्यते, सम्पद्यते भवतीत्यर्थः, तदोत्तरार्द्धेऽपि वर्षाणां प्रथमः समयो भवति, समकालनैयत्येन दक्षिणार्जे | उत्तरार्द्धे च सूर्ययोश्चारभावात्, यदा चोत्तरार्द्ध वर्षाकालस्य प्रथमः समयः तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वापरयोर्दिशोरनन्तरपुरस्कृते समये अनन्तरो - निर्व्यवधानो दक्षिणार्द्धवर्षा प्रथमतापेक्षया स चातीतोऽपि स्यादत For Private & Personal Use Only ७वक्षस्कारे सूर्यादेरी शान्यादा बुद्गमादि : सू. १५० 1182311 www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy