SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter स्यापि सूर्यस्याभावात् इत्येवं काक्का प्रश्ने कृते भगवानाह - 'हंता ! गोअमे' त्यादि, यदा जम्बूद्वीपे द्वीपे दक्षिणाद्धे | दिवसो यावद्रात्रिर्भवतीत्यन्तं प्रत्युच्चारणीयं । क्षेत्रपरावृत्त्या दिवसरात्रिविभागं पृच्छन्नाह - यदा भदन्त ! जम्बूद्वीपे | द्वीपे मन्दरस्य पर्वतस्य पूर्वेण दिवसो भवति तदा पश्चिमायामपि दिवसो भवति, प्रागुक्तयुक्तेरेव, यदा च पश्चिमायां दिवसस्तदा मेरोदक्षिणोत्तरयो रात्रिः, प्रश्नसूत्रं चैतत्, 'हंता ! गोअमे' त्यादि उत्तरसूत्रं तथैव, उक्तः सामान्यतो दिवसरात्रिविभागः, सम्प्रति तमेव विशेषत आह-यदा भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणार्द्ध उत्कर्षतोऽष्टादशमुहूर्त्ता दिवसो |भवतीत्यादिकं सूत्रं प्रायो निगदसिद्धं, तथापि किञ्चिदेतद्वृत्त्यादिगतं लिख्यते-इह किल सूर्यस्य चतुरशीत्यधिकं मण्ड| लशतं भवति, तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिर्मण्डलानि भवन्ति, एकोनविंशत्यधिकं च शतं तेषां लवणसमुद्रमध्ये | भवति, तत्र सर्वाभ्यन्तरे मण्डले यदा सूर्यो भवति तदाऽष्टादशमुहूर्ती दिवसो भवति, यदा सर्ववाये मण्डले सूर्यो | भवति तदा सर्वजघन्यो द्वादशमुहूर्त्ता दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहत्कषष्टिभागाभ्यां दिनस्य वृद्धौ त्र्यशीत्यधिकशततममण्डले पद् मुहूर्त्ता वर्द्धन्त इत्येवमष्टादशमुहूर्त्ता दिवसो भवति, अत एव द्वादशमुहूर्त्ता रात्रिर्भवति, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य, 'अट्टारसमुहुत्ताणंतरे'त्ति यदा सर्वाभ्यन्तरमण्डलानन्तरे मण्डले सूर्यो भवति तदा मुहूर्तैकषष्टिभागद्वयहीनोऽष्टादशमुहूर्त्ता दिवसो भवति, स चाष्टादशमुहूर्त्ताद्दिवसादनन्तरोऽष्टादशमुहूर्त्तानन्तर इति व्यपदिष्टः, 'सातिरेगा दुवालसमुहुत्ता राइ'ति तदा द्वाभ्यां मुहूर्त्तकषष्टिभागाभ्यामधिका द्वादशमु For Private & Personal Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy