________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥४८० ॥
Jain Education
| दिगन्तरं क्षेत्र दिगपेक्षयोत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया, उद्गत्य - पूर्वविदेहापेक्षयोदयं प्राप्य प्राचीन दक्षिणे दिगन्तरे प्राग्दक्षिणस्यामाग्नेयकोणे इत्यर्थः आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इह चोद्गमनमस्तमयनं च द्रष्टृलोकविवक्षयाऽवसेयं, तथाहि - येषामदृश्यौ सन्तौ दृश्यौ तौं स्यातां, ते तयोरुदयं व्यवहरन्ति, | येषां तु दृश्यौ सन्तावदृश्यौ तौ स्तस्ते तयोरस्तमयं व्यवहरन्तीत्यनियतावुदयास्तमयाविति, अत्र काकुपाठात् प्रश्नोsवगन्तव्यः, ततो भरतादिक्षेत्रापेक्षया प्राग्दक्षिणस्यामुद्गत्य दक्षिणप्रतीच्यामागच्छतस्तत्रापि दक्षिणप्रतीच्यामपर विदेहापेक्षयोद्गत्य प्रतीचीनोदीचीने - वायव्यकोणे आगच्छतस्तत्रापि च वायव्यामैरावतादिक्षेत्रापेक्षयोद्गत्योदी चीनप्रतीचीनेईशानकोणे आगच्छतः, एवं सामान्यतः सूर्ययोरुदयविधिः, विशेषतः पुनरेवं- यदैकः सूर्यः आग्नेयकोणे उद्गच्छति | तत्रोद्गतश्च भरतादीनि मेरुदक्षिणदिग्वत्तनि क्षेत्राणि प्रकाशयति तदा परोऽपि वायव्यकोणे उद्गतो मेरूत्तरदिग्भावी| न्यैरावतादीनि क्षेत्राणि प्रकाशयति, भारतश्च सूर्यो मण्डलभ्राम्या भ्रमन् नैर्ऋतकोणे उद्गतः सन्नपरमहा विदेहान् प्रकाशयति, ऐरावतस्तु ऐशान्यामुद्गतः पूर्वविदेहान् प्रकाशयति, ततः एष पूर्वविदेहप्रकाशको दक्षिणपूर्वस्यां भरतादिक्षेत्रापेक्षयोदयमासादयति, अपरविदेहप्रकाशकस्त्वपरोत्तरस्यामैरव तादिक्षेत्रापेक्षयोदयमासादयति, अत्रैशान्यादिदिग्व्यवहारो मेरुतो बोध्यः, अन्यथा भरतादिजनानां स्वस्वसूर्योदय दिशि पूर्वदिकृत्वे आग्नेयादिकोण व्यवहारानुपपत्तेरिति, | एवं प्रश्ने कृते भगवानाह - हन्तेत्यव्ययमभ्युपगमार्थे तेन हे गौतम! इत्थमेव यथा त्वं प्रश्नयति तथैवेत्यर्थः, अनेन
For Private & Personal Use Only
७वक्षस्कारे सूर्यादेरी
शान्यादाबुद्गमादिः
सू. १५०
॥४८०॥
w.jainelibrary.org