________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥४७९॥
एकोनत्रिंशन्मुहूर्त्ताः २९, ततः शेषच्छेद्यच्छेदकराश्योः पञ्चकेनापवर्त्तना जात उपरितनों राशिरस्त्रीणि शतानि सप्तोत्त| राणि ३०७ छेदकराशिस्त्रिीणि शतानि सप्तषष्ट्यधिकानि ३६७, सत आगतमेकं रात्रिन्दिवमेकस्य च रात्रिन्दिवस्यैकोनत्रिंशन्मुहर्त्ताः एकस्य व मुहूर्त्तस्य सप्तषष्ट्यधिकत्रिशतभागानां त्रीणि शतानि सोत्तराणि १२९ । इदानी|मेतदनुसारेण मुहूर्त्तगतिपरिमाणं चिन्त्यते, तत्र रात्रिन्दिवे त्रिंशन्मुहूर्त्ताः ३० तेषु उपरितना एकोनत्रिंशन्मुहूर्त्ताः | प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्त्तानां ततः सा सवर्णनार्थं त्रिभिः शतैः षष्ट्यधिकैर्गुण्यते, गुणयित्वा चोपरितनानि त्रीणि | शतानि सप्तोत्तराणि प्रक्षिप्यन्ते जातान्येकविंशतिः सहस्राणि नव शतानि षष्ट्यधिकानि २१९६०, ततस्त्रैराशिकंयदि मुहूर्त्तगतसप्तषष्ट्यधिकत्रिशतभागानामेकविंशत्या सहस्रैः नवभिः शतैः षष्ट्यधिकैरेकं शतसहस्रमष्टानवतिः शतानि मण्डलभागानां लभ्यन्ते तत एकेन मुहूर्त्तेन किं लभामहे ?, राशित्रयस्थापना - २१९६० । १०९८०० | १ अत्राद्यो | राशिर्मुहूर्त्तगतसप्तषष्ट्यधिकत्रिशतभागरूपस्ततोऽन्त्योऽपि राशिस्त्रिभिः शतैः सप्तषष्ट्यधिकैर्गुण्यते जातानि त्रीण्येव शतानि सप्तषष्ट्यधिकानि ३६७ तैर्मध्यों राशिर्गुण्यते जाताश्चतस्रः कोटयो द्वे लक्षे षण्णवतिः सहस्राणि पट् शतानि ४०२९६६००, तेषामाथेन राशिना एकविंशतिसहस्राणि नव शतानि षष्ट्यधिकानि इत्येवंरूपेण भागो हियतें, लब्धान्यष्टादश शतानि पञ्चत्रिंशदधिकानि १८३५, एतावती भागान्नक्षत्रं प्रतिमुहूर्त्त गच्छति इदं च भागात्मके गतिविचारणं चन्द्रादित्रयस्य क्योत्तर गतिशीघ्रत्वे सप्रयोजनं, तथाहि--सर्वेभ्यो नक्षत्राणि शीघ्रगतीनि मण्डलस्योकभागी
Jain Education International
For Private & Personal Use Only
७वक्षस्कारे
नक्षत्रम
मण्डलादि सू. १४९
॥४७९॥
www.jainelibrary.org