________________
लभ्यन्ते ततः एकेन मुहूर्तेन कति भागान् लभामहे, राशित्रयस्थापना-६० । १०९८००।१ अत्रान्त्येन राशिना 31 एककलक्षणेन मध्यस्य राशेर्गुणनं, जातः स तावानेव, एकेन गुणितं तदेव भवतीति वचनात् , ततस्तस्यायेन राशिना | षष्टिलक्षणेन भागो ह्रियते, लब्धान्यष्टादश शतानि त्रिंशदधिकानि १८३०, एतावतो भागान् मण्डलस्य सूर्य एकै| केन मुहूर्तेन गच्छति, अथ नक्षत्राणां भागात्मिकां गतिं प्रश्नयन्नाह–'एगमेगे ण'मित्यादि, प्रश्नसूत्रं सुगम, उत्तरसूत्रे तु गौतम! यद्यदात्मीयमात्मीयं प्रतिनियतं मण्डलमुपसङ्कम्य चारं चरति तस्य तस्यात्मीयस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य-परिधेरष्टादशभागशतानि पञ्चत्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टनवत्या च शतैः छित्त्वा, | इहापि प्रथमतो मण्डलकालों निरूपणीयस्ततस्तदनुसारेणैव मुहूर्तगतिपरिमाणभावना, तत्र मण्डलकालप्रमाणचिन्तायां |
इदं त्रैराशिक-यद्यष्टादशभिः शतैः पञ्चत्रिंशदधिकः सकलयुगवर्तिभिरर्द्धमण्डलैर्द्वितीयाष्टाविंशतिनक्षत्रापेक्षया तु पूर्ण18| मण्डलैरित्यर्थः अष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकेन परिपूर्णेन
मण्डलेनेति भावः किं लभामहे ?, राशित्रयस्थापना-१८३५। १८३०१ २ अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातानि षट्त्रिंशच्छतानि षष्ट्याधिकानि ३६६०, तत आयेन राशिना १८३५ लक्षणेन भागहरणं लब्धमेकं रात्रिन्दिवं १, शेषाणि तिष्ठन्त्यष्टादश शतानि पञ्चविंशत्यधिकानि १८२५, ततो मुहूर्तानयनार्थमेतानि त्रिंशता गुण्यन्ते, जातानि चतुःपञ्चाशत्सहस्राणि सप्त शतानि पञ्चाशदधिकानि ५४७५०, तेषामष्टादशभिः शतैः पञ्चत्रिंशदधिकांगे हते लब्धा
Jain Education Intel
For Private & Personal Use Only
jainelibrary.org