SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Jain Education भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वातिश्च द्वितीये पुनर्वसु मघा च, तृतीये कृत्तिका, चतुर्थे रोहिणी चित्रा च, | पञ्चमे विशाखा षष्ठे अनुराधा सप्तमे ज्येष्ठा अष्टमे मृगशिरः आर्द्रा पुष्यः अश्लेषा मूलो हस्तश्च, पूर्वाषाढोत्तरापाढयोद्वे द्वे तारे अभ्यन्तरतो द्वे द्वे बाह्यत इति, एवं स्वस्वमण्डलावतारसत्कचन्द्रमण्डलपरिध्यनुसारेण प्रागुक्तरीत्या द्वितीयादीनामपि नक्षत्रमण्डलानां मुहूर्त्तगतिः परिभावनीया, उक्ता प्रतिमण्डलं चन्द्रादीनां योजनात्मिका मुहूर्त्तगतिः, | अथ तेषामेव प्रतिमण्डलं भागात्मिकां मुहूर्त्तगतिं प्रश्नयति - ' एगमेगे ण' मित्यादि, एकैकेन भगवन् ! मुहूर्त्तेन चन्द्रः | कियन्ति भागशतानि गच्छति ?, गौतम ! यद्यन्मण्डलमुपसङ्क्रम्य चारं चरति तस्य तस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य सप्तदश शतान्यष्टषष्टिभागैरधिकानि गच्छति, मण्डलपरिक्षेपमेकेन लक्षेणाष्टनवत्या च शतैः छित्त्वा विभज्य, | इयमत्र भावना - इह प्रथमतश्चन्द्रस्य मंडलकालो निरूपणीयस्तदनन्तरं तदनुसारेण मुहूर्त्तगतिपरिमाणं भावनीयं, तत्र | मंडलकालनिरूपणार्थमिदं त्रैराशिकं - यदि सप्तदशभिः शतैरष्टषष्ट्यधिकैः सकलयुगवर्त्तिभिरर्द्धमंडलैश्चन्द्रद्वयापेक्षया तु पूर्णमंडलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमंडलाभ्यामेकेन मण्डलेनेति भावः कति रात्रिन्दिवानि लभ्यन्ते ?, राशित्रयस्थापना - १७६८ । १८३० । २ । अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेगुणनं जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि ३६६० तेषामादिराशिना भागहरणं लब्धे द्वे रात्रिन्दिवे शेषं तिष्ठति चतुर्विंशत्यधिकं शतं १२४ तत्रैकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्त्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छ For Private & Personal Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy