________________
श्रीजम्बू
७वक्षस्कारे नक्षत्रमण्डलादि
चैकोनविंशत्यधिकानि योजनशतानि षोडश च भागसहस्राणि त्रीणि च पञ्चषष्टयधिकानि भागशतानि गच्छति मण्ड-18 द्वीपशा- 18लमेकविंशत्या भागसहस्रैर्नवभिश्च षष्टयधिकैः शतैः छित्त्वा इति, अत्रोपपत्तिः-अत्र मण्डले परिधिः ३१८३१५, अयं न्तिचन्द्री- त्रिभिः सप्तषष्टयधिकैः शतैः ३६७ गुण्यते जातं ११६८२१६०५, अस्य राशेरेकविंशत्या सहस्रैर्नवभिः शतैः षष्टयधिकैः या वृत्तिः
|भागे लब्धानि ५३१९ योजनानि शेष १३६५ भागाः, एतावती सर्वबाह्ये नक्षत्रमण्डले मृगशीर्षप्रभृतीनामष्टानां नक्ष॥४७६॥ त्राणां मुहूर्तगतिः, उक्ता तावत् सर्वाभ्यन्तरसर्वबाह्यमण्डलवर्तिनां नक्षत्राणां मुहूर्तगतिः, अथ नक्षत्रतारकाणामव
स्थितमण्डलकत्वेन प्रतिनियतगतिकत्वेन चावशिष्टेषु षट्सु मण्डलेषु मुहूर्त्तगतिपरिज्ञानं दुष्करमिति तत्कारणभूतं मण्ड| लपरिज्ञानं कत्तुं नक्षत्रमण्डलानां चन्द्रमण्डलेषु समवतारप्रश्नमाह-'एते ण'मित्यादि, एतानि भदन्त ! अष्टौ नक्षत्र| मण्डलानि कतिषु चन्द्रमण्डलेषु समवतरन्ति-अन्तर्भवन्ति, चन्द्रनक्षत्राणां साधारणमण्डलानि कानीत्यर्थः, भगवानाह-गौतमाष्टासु चन्द्रमण्डलेषु समवतरन्ति, तद्यथा-प्रथमे चन्द्रमण्डले प्रथम नक्षत्रमण्डलं, चारक्षेत्रसञ्चारिणामनवस्थितचारिणां च सर्वेषां ज्योतिष्काणां जम्बूद्वीपेऽशीत्यधिकयोजनशतमवगावि मण्डलप्रवर्त्तनात् , तृतीये चन्द्रमण्डले द्वितीय, एते च द्वे जम्बूद्वीपे, षष्ठे लवणे भाविनि चन्द्रमण्डले तृतीय, तत्रैव भाविनि सप्तमे चतुर्थ अष्टमे पञ्चमं
दशमे षष्ठं एकादशे सप्तमं पञ्चदशेऽष्टमं शेषाणि तु द्वितीयादीनि सप्त चन्द्रमण्डलानि नक्षत्रैविरहितानि, तत्र प्रथमे शचन्द्रमण्डले द्वादश नक्षत्राणि, तद्यथा-अभिजिच्छ्रवणो धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा रेवती अश्विनी
॥४७६॥
Jain Education into
For Private & Personal Use Only
R
ainelibrary.org.