SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ मिदं सूत्रं ज्ञेयम् , 'तच्चंपि वेउविअसमुग्धाएणं समोहणंति २त्ता पुष्फवद्दलए विउबन्ति, से जहाणामए मालागारदारए सिआ जाव सिप्पोवगए एगं महं पुप्फछजिअं वा पुप्फपडलगं वा पुप्फचंगेरीअं वा गहाय रायंगणं वा जाव | समन्ता कयग्गहगहिअकरयलपन्भट्ठविप्पमुक्केणं दसद्धवण्णेणं कुसुमेणं पुष्फपुंजोवयारकलिअं करेति एवमेव ताओवि उद्धलोगवत्थवाओ जाव पुप्फवद्दलए विउबित्ता खिप्पामेव पतणतणायन्ति जाव जोअणपरिमण्डलं जलयथलयभासुरप्पभूयस्स बिटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेहपमाणमित्तं वासं वासंति'त्ति, अत्र व्याख्या-तृतीयवारं वैक्रियसमुद्घातेन समवघ्नन्ति, कोऽर्थः?-संवर्तकवातविकुर्वणार्थ हि यत् वेलाद्वयमपि वैक्रियसमुद्घातेन समवहननं तत्किलैक एवमभ्रवादलकविकुर्वणार्थ द्वितीयं इदं तु पुष्पवादलकविकुर्वणार्थ तृतीयं, समवहत्य च पुष्पवादलकानि विकुर्वन्ति, स यथानामको मालाकारदारको-मालिकपुत्रः अस्यैव प्रस्तुतकार्ये व्युत्पन्नत्वात् स्याद्यावन्निपुणशिल्पोपगतः एका महतीं 'पुष्पच्छाद्यिकां वा' छाद्यते-उपरि स्थग्यते इति छाद्या छायैव छाधिका पुष्पै ता छाधिका पुष्पछाधिका तां पुष्पपटलकं वा-पुष्पाधारभाजनविशेष पुष्पचङ्गेरिकां वा प्रतीतां यावत् समन्तात् रतकलहे या पराङ्मुखी सुमुखी तत्संमुखीकरणाय केशेषु ग्रहणं कचग्रहस्तत्प्रकारेण गृहीतं तथा करतलाद्विप्रमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविप्रमुक्तं प्राकृतत्वात् पदव्यत्ययस्ततो विशेषणसमासः तेन कचग्रहगृहीतकरतलप्रभ्रष्टविप्रमुक्तेन दशार्द्धवर्णेन-पञ्चवर्णेन कुसुमेन-जात्यपेक्षया एकवचनं कुसुमजातेन पुष्पपुञ्जोपचारो-बलिप्रकारस्तेन कलितं करोति, एवमेता Jain Education in For Private & Personal Use Only SMSrjainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy