________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृतिः
॥४७१ ॥
Jain Education Intell
अस्य राशेः त्रयोदशभिः सहस्रैः सप्तभिः शतैः पंचविंशत्यधिकैर्भागे हृते लब्धानि पंच योजनसहस्राणि त्रिसप्तत्यधिकानि अंशाध सप्तसप्ततिशतानि चतुश्चत्वारिंशदधिकानि ५०७३ १७१६ ननु यदि मण्डलपरिधित्रयोदशसहस्रादि| केन भाजकेन रशिना भाज्यस्तर्हि किमित्येकविंशत्यधिकाभ्यां द्वाभ्यां शताभ्यां मण्डलपरिधिर्गुण्यते ?, उच्यते, चन्द्रस्य मण्डलपूरणकालो द्वाषष्टिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य सत्कास्त्रयोविंशतिरेकविंशत्यधिकशतद्वयभागाः, अस्य च भावना चन्द्रस्य मुहूर्त्तभागगत्यवसरे विधास्यते, मुहूर्त्तानां सवर्णनार्थमेकविंशत्यधिकशतद्वयेन गुणने त्रयोविंशत्यंशप्रक्षेपे च जातं १३७२५, अतः समभागानयनार्थं मण्डलस्याप्येकविंशत्यधिकशतद्वयेन गुणनं सङ्गतमेवेति, अयं भावः- यथा | सूर्यः षष्ट्या मुहूर्त्तेर्मण्डलं समापयति शीघ्रगतित्वात् लघुविमानगामित्वाच्च तथा चन्द्रो द्वाषष्ट्या मुहूर्तैस्त्रयोविंशत्येकविंशत्यधिकशतद्वयभागैर्मण्डलं पूरयति मन्दगतित्वाद् गुरुविमानगामित्वाच्च तेन मण्डलपूर्त्तिकालेन मण्डलपरि| धिर्भक्तः सन् मुहूर्त्तगतिं प्रयच्छतीति सर्वसम्मतं, आह-एकविंशत्यधिकशतद्वयभागकरणे किं बीजमिति भेद्, उच्यते, मण्डलकालानयने अस्यैष छेदकराशेः समानयनात्, मण्डलकालनिरूपणार्थमिदं त्रैराशिकं-यदि सप्तदशभिः शतैः अष्टषष्ट्यधिकैः सकलयुगवर्त्तिभिः अर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्या| मर्द्ध मण्डलाभ्यामेकेन मण्डलेनेति भावः कति रात्रिन्दिवानि लभ्यन्ते ?, राशित्रयस्थापना - १७६८।१८३०/२ अत्रान्त्येन राशिना द्विकलक्षणेन मध्यस्य राशेः १८३० रूपस्य गुणने जातानि षटूत्रिंशच्छतानि षष्ट्यधिकानि ३६६० तेषा
For Private & Personal Use Only
७वक्षस्कारे चन्द्रमुहूतेगतिः स्र.
१४८
॥४७१ ॥
www.jainelibrary.org