________________
Jain Education Inter
षष्ट्यधिकानि योजनशतान्यायामविष्कम्भाभ्या, उपपत्तिस्तु जम्बूद्वीपो लक्षं उभयोः प्रत्येकं त्रीणि योजनशतानि त्रिंश| दधिकानि उभयमीलने योजनानां षट् शतानि षष्ट्यधिकानीति, त्रीणि च योजनलक्षाणि अष्टादश सहस्राणि त्रीणि च | पञ्चदशोत्तराणि योजनशतानि परिक्षेपेण, अत्रोपपत्तिः जम्बूद्वीपपरिधौ षष्ट्यधिकषट्शतपरिधौ प्रक्षिप्ते भवति यथोक्तं मानं, अथ द्वितीयं 'बाहिराणन्तर' मित्यादि, बाह्यानन्तरं द्वितीयं मण्डलमित्यर्थः पृच्छति प्रश्नालापकस्तथैव, उत्तरसूत्रे गौतम ! एकं योजनलक्षं पञ्च सप्ताशीत्यधिकानि योजनशतानि नव चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा षट् चूर्णिकाभागान् आयामविष्कम्भाभ्यां, अत्रोपपत्तिः पूर्वराशेद्वसप्ततिं योजनान्येकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकस्य च एकषष्टिभागस्य सप्तधा छिन्नस्य एकं भागमपनीय कर्त्तव्या, त्रीणि योजनलक्षाणि अष्टादश सहस्राणि पञ्चाशीतिं योजनानि परिक्षेपेण, सर्वबाह्यमण्डलपरिधेद्वे शते त्रिंशदधिके योजनानामपनयने यथोक्तमानं, अथ तृतीयं 'बाहिरतचे ण' मित्यादि, बाह्यतृतीयं भदन्त ! चन्द्रमण्डलं यावच्छन्दात् सर्व प्रश्नसूत्रं ज्ञेयं, उत्तरसूत्रे - गौतम ! एकं योजनलक्षं पञ्च चतुर्दशोत्तराणि योजनशतानि एकोनविंशतिं चैकषष्टिभागान् योजनस्य एकं चैकषष्टिभागं सप्तधा छित्त्वा पञ्च चूर्णिकाभागान् आयामविष्कम्भाभ्यां अत्र सङ्गतिस्तु द्वितीयमण्डलराशेः द्वासप्तति| योजनादिकं राशिमपनीय कार्या, त्रीणि योजनलक्षाणि सप्तदश सहस्राणि अष्ट च पश्ञ्चपञ्चाशदधिकानि योजनशतानि परिक्षेपेण, उपपत्तिस्तु पूर्वराशेद्वे शते त्रिंशदधिके अपनीय कार्या, अथ चतुर्थादिमण्डलेष्वतिदेशमाह - ' एवं खलु'
For Private & Personal Use Only
Jainelibrary.org