________________
Lokseeeeeeeeeeeeeeeeeesed
अथ द्वितीयमण्डलं पृच्छन्नाह-'जम्बुद्दीवे'इत्यादि, जम्बूद्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तं ?, गौतम! पञ्चचत्वारिंशद्योजनसहस्राणि द्वे च त्रिनवत्यधिके योजनशते पञ्चत्रिंशच्चैकषष्टिभागान् योजनस्य एक चैकषष्टिभागं सप्तधा छित्त्वा त्रीश्चर्णिकाभागानबाधया सर्वबाह्यानन्तरं द्वितीय चन्द्रमण्डलं प्रज्ञप्त, सर्बबाह्यमण्डलराशेः षट्त्रिंशद्योजनानि पञ्चविंशतिश्च योजनैकषष्टिभागा एकस्यैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः पात्यन्ते जायते यथोक्तराशिः, अथ तृतीयमण्डलपृच्छा-'जम्बुद्दीवे 'इत्यादि, प्रश्नसूत्रं सुगम, उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि द्वे च सप्तपञ्चाशदधिके योजनशते नव च एकषष्टिभागान् योजनस्य एक च एकषष्टिभागं सप्तधा छित्त्वा षट् चूर्णिकाभागान् अबाधया बाह्यतृतीयं चन्द्रमण्डलं प्रज्ञप्तं, उपपत्तिस्तु बाह्यद्वितीयमण्डलराशेस्तमेव षट्त्रिंशद्योजनादिकं राशिं पातयित्वा यथोक्तं मानमानेतव्यं । अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं खलु' इत्यादि व्यक्तम्, नवरं अबाधायाः वृद्धिं निवर्द्धयन् २ हापयन् २ इत्यर्थः॥ अथ सर्वाभ्यन्तरादिमण्डलायामाद्याहसव्वम्भंतरे णे भन्ते! चंदमंडले केवइ आयामविक्खम्भेणं केवइ परिक्खेवेणं पण्णत्ते ?, गो० ! णवणउई जोअणसहस्साई छञ्चचत्ताले जोअणसए आयामविक्खम्भेणं तिण्णि अ जोअणसयसहस्साइं पण्णरस जोअणसहस्साई अउणाणउतिं च जोअणाई किंचिविसेसाहिए परिक्खेवेणं पं०, अब्भन्तराणंतरे सा चेव पुच्छा, गो०! णवणउई जोअणसहस्साई सत्त य बारसुत्तरे जोअणसए
Recentercerseeeeeeeestsesese
Jain Education Intl
For Private & Personal use only
INMr.jainelibrary.org