________________
Jain Education Inte
| तत्रैकषष्टिभागैर्योजनं लब्धं तच्च योजनराशौ प्रक्षिप्यते एकश्चैकषष्टिभागः शेषः ४९७ योजन दे, इदं च मण्डलान्तरक्षेत्रं, योऽपि च विम्बक्षेत्रराशि स्त्रयोदशयोजनसप्तचत्वारिंशदेकषष्टिभागात्मकः सोऽपि मण्डलान्तरराशौ प्रक्षिप्यते जातं योजनानि ५१०, यश्च पूर्वोद्धरितः एकः एकषष्टिभागः स सप्तचत्वारिंशति प्रक्षिप्यते जातं ४८ एकषष्टिभागाः, | ननु पञ्चदशसु मण्डलेषु चतुर्दशान्तरालसम्भवाञ्च्चतुर्दशभिर्भजनं युक्तिमत्, सप्तचत्वारो भागा इति कथं सङ्गच्छते ?, | उच्यते, मण्डलान्तरक्षेत्रराशेः ४९७ मण्डलान्तरैश्चतुर्दशभिर्भजने लब्धानि ३५ योजनानि, उद्धरितस्य योजनं| राशेरेकषष्ट्या गुणने मूलराशिसत्कैकषष्टिभागप्रक्षेपे च जातं ४२८ एषां चतुर्दशभिर्भजने आगतोऽंशराशि: ३० शेषा | अष्टौ तेषां चतुर्दशभिर्भागाप्राप्तौ लाघवार्थं द्वाभ्यामपवर्त्तने जातं भाज्यभाजकराश्योः इति सुस्थं ॥ सम्प्रति मण्डलान्तरप्ररूपणाप्रश्नमाह - चंदमंडलस्स ण'मित्यादि, चन्द्रमण्डलस्य भद्रन्त ! चन्द्रमण्डलस्य कियत्या अबाधया अन्तरं प्रज्ञप्तम् ?, गौतम ! पञ्चत्रिंशत्पश्चत्रिंशद्योजनानि त्रिंशच्चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा चतुरश्चूर्णिकाभागान्, एतच्च चन्द्रमण्डलस्य २ अबाधया अन्तरं प्रज्ञप्तं, अत्र सप्त चत्वारश्चूर्णिका यथा | समायान्ति तथाऽनन्तरं व्याख्यातं, सम्प्रति मण्डलायामादिमानद्वारम् - 'चन्द्रमण्डले णं भन्ते ! केवइयं आयाम' | इत्यादि, चन्द्रमण्डलं भगवन् ! कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण कियद्वाहल्येन - उच्चैस्त्वेन प्रज्ञप्तम् ?, गौतम ! षट्पञ्चाशतमेकषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां, एकस्य योजनस्य एकषष्टिभागीकृतस्य यावत्प्रमाणा भागा
For Private & Personal Use Only
jainelibrary.org