________________
श्रीजम्यूद्वीपशान्तिचन्द्री -
या वृत्तिः
॥४६४॥
Jain Education Int
श्मय इत्यर्थः, मन्दलेश्या एतच्च सूर्यान् प्रति, तेन ते नात्युष्णतेजसः मनुष्यलोके इव निदाघसमये न एकान्तत उष्ण - | रश्मय इत्यर्थः, एतदेव व्याचष्टे - मन्दातपलेश्या - मन्दा - नात्युष्णस्वभावा आतपरूपा लेश्या - रश्मिसंघातो येषां ते तथा, | तथा च चित्रान्तरलेश्याः- चित्रमन्तरं लेश्या च येषां ते तथा, भावार्थश्चास्य चित्रमन्तरं सूर्याणां चन्द्रान्तरितत्वात्, चित्रलेश्या चन्द्रमसां शीतरश्मित्वात् सूर्याणामुष्णरश्मित्वात् काभिरवभासयन्तीत्याह - अन्योऽन्य समवगाढाभिः| परस्परं संश्लिष्टाभिर्लेश्याभिः तथाहि — चन्द्रमसां सूर्याणां च प्रत्येकं लेश्या योजनशतसहस्रप्रमाणविस्ताराश्चन्द्रसूर्याणां च सूचीपंक्तया व्यवस्थितानां परस्परमन्तरं पञ्चाशद्योजनसहस्राणि ततश्चन्द्रप्रभामिश्राः सूर्यप्रभाः सूर्यप्रभा | मिश्राश्चन्द्रप्रभाः, इत्थं चन्द्रसूर्यप्रभाणां मिश्रीभावः एषां स्थिरत्वदृष्टान्तेन द्योतयति - कूटानीव - पर्वतोप रिव्यवस्थि| तशिखराणीव स्थानस्थिताः - सदैवैकत्र स्थाने स्थिताः, सर्वतः समन्तात् तान् प्रदेशान् - स्वस्वप्रत्यासन्नान् अवभा| सयन्ति उद्योतयन्ति तापयन्ति प्रभासयन्तीत्यादि प्राग्वत् । एषामपीन्द्राभावे व्यवस्थां प्रश्रयन्नाह - 'तेसि णं भन्ते ! | देवाण' मित्यादि प्राग्वत् । इति कृता पञ्चदशानुयोगद्वारैः सूर्यप्ररूपणा, अथ चन्द्रवतव्यमाह - तत्र सप्तानुयोगद्वाराणि, मण्डलसङ्ख्याप्ररूपणा १ मण्डल क्षेत्र प्ररूपणा २ प्रतिमण्डलमन्तरप्ररूपणा ३ मण्डलायामादिमानं ४ मन्दरमधिकृत्य प्रथमादिमण्डलाबाधा ५ सर्वाभ्यन्तर। दिमण्डलायामादि ६ मुहूर्त्तगतिः ७ । तत्रादौ मण्डलसङ्ख्याप्ररूपणां पृच्छति -
For Private & Personal Use Only
वक्षस्कारे सूर्येन्द्रच्यवे स्थितिः विरहादिच
सू. १४१
॥४६४॥
w.jainelibrary.org